SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् २७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३५६ गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वञ् । (४-२-३६) एभ्यः समूहे वुञ् स्यात् । लौकिकमिह गोत्रम् , तथापत्यमात्रम् । १२४७ युवोरनाको । (७-१-१) यु वु एतयोरनुनासिकयोः क्रमाद् अन अक एतावादेशौ स्तः । ग्लुचुकायनीनां समूहो ग्लौचुकायनकम् । श्रीक्षकमित्यादि । 'आपत्यस्य च-' (सू १०८२) इति यलोपे प्राले 'प्रकृत्याऽके राजन्यमनुष्ययुवानः' ( वा ४२१४) राजन्यकम् । मानुष्यकम् । 'वृद्धाश्चेति वक्तव्यम्' (वा २७१६) 'तस्य समूहः' इत्यणि प्रकृतिभावाडिलोपाभावे यौवनमिति सिद्धमेवेति युवतिशब्दो भिक्षादिगणे प्रत्याख्य तो भाष्यकैयटयोरित्यलम् । शत्रन्तादिति । प्रत्ययस्वरेण मध्योदात्तत्वादनुदात्ता देरयं युवच्छब्दः । तत उगिल्लक्षणडीपः पुंवत्त्वेन निवृत्तौ युवच्छब्दादनुदात्तादेर नि यौवतमिति रूपमिति भावः । गोत्रोक्षोष्ट । एभ्य इति । गोत्र, उक्षन् , उष्ट्र, उरभ्र, राजन् , राजन्य, राजपुत्र, वत्स, मनुष्य, अज एतेभ्य इत्यर्थः । लौकिकमिह गोत्रमिति । नतु पारिभाषिकमित्यर्थः। अत्र लौकिक गोत्रं किमित्यत आह -तच्चापत्यमात्रमिति । प्रवराध्याये परिगणितं पुत्रपौत्रादि कृत्स्नापत्यमित्यर्थः । 'अपत्याधिकारादन्यत्र लौकिकमेव गोत्रं गृह्यते, नतु परिभाषिकं गोत्रमिष्यते' इति 'स्त्रीपुंसाभ्याम्-' इत्यादिसूत्रभाष्ये सिद्धान्तितत्वादिति भावः । युवोरनाको । युश्च वुश्च युवुः । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । तदाहयु वु एतयोरिति 'अनुनासिकयोरिष्यते' इति वार्तिकलब्धमेतत् । अनुनासिकयोः किम् ? ऊर्णायुः । ग्लुचुकायनीनामिति । 'प्राचामवृद्धात्' इति ग्लुचुकशब्दादपत्ये फिन् , 'इतो मनुष्यजातेः' इति ङीष् , समूहे वुञ्। अकादेशः, आदिवृद्धिः, 'यस्येति च' इतीकारलोपः। औक्षकमिति । उक्षणां समूह इति विग्रहः । वुञ् , अकादेशः, टिलोपः, श्रादिवृद्धिः । उष्ट्राणां समूह इति विग्रहः, औष्ट्रकम् । उरभ्रा मेषाः, तेषां समूह औरभ्रकम् । राजकम् , राजन्यकम् । वात्सकम् । मानुष्यकम् । आजकम् । यलोपे प्राप्त इति । राजन्यशब्दाद् वुजि अकादेशे 'श्रापत्यस्य च-' इति यकारस्य लोपे प्राप्ते सतीत्यर्थः । प्रकृत्याऽके राजन्यमनुष्ययुवान इति । अके परे राजन्य, मनुष्य, युवन् एते प्रकृत्या स्युरिति वक्तव्यमिन' इति वृत्तिकारोक्तिर' यत एव निरस्ता । नन्वेवं 'गार्मिणं यौवतं गणे' इत्यादिप्रयोगा भाष्यमते न संगच्छेरन्नित्याशङ्कयाह-शत्रन्तादिति । युवोः । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । उकारस्तूच्चारणार्थो नेत्संज्ञकः । तेन नन्दनः, कारकः, नन्दना, कारिका इत्यत्रोगिल्लक्षणौ नुम्डीपौ न स्वः । अनुनासिकयोरिति किम् , ऊर्णयुः । प्रकृत्याऽक इति । इह राजन्यमनुष्यग्रहणं व्यर्थम् । रूढिशब्दत्वेन 'आपत्यस्य
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy