________________
३६० ]
सिद्धान्तकौमुदी। तद्धितेषु चातुरर्थिक वार्द्धकम् । १२४८ केदाराद्यञ्च । (४-२-४०) चाद्वा । कैदार्यम्, केदार कम् । 'गणिकाया यमिति वक्तव्यम्' (वा २७१६) । गाणिक्यम् । १२४६ ठकवचिनश्च । (४-२-४१) चाकेदारादपि । कवचिनां समूहः कावचिकम्। कैदारिकम् । १२५० ब्राह्मणमाणववाडवाद्यन् । (४-२-४२) ब्राह्मण्यम् । माणव्यम् । बाडव्यम् । 'पृष्ठादुपसंख्यानम्' (वा २७२०) पृष्ठ्यः षडहः । १२५१ ग्रामजनबन्धुभ्यस्तत् । (४-२-४३) ग्रामता । जनता । बन्धुता। त्यर्थः । यूनो भावो यौवनकम् । मनोज्ञादित्वाद् वुञ् । प्रकृतिभावान्न टिलोपः । 'वृद्धाच्च' इति वृद्धशब्दस्वरूपमेव गृह्यते, नतु 'वृद्धिर्यस्थाचामादिः-' इति वृद्धसंज्ञकम् , भाष्ये वृद्धशब्दस्यैवोदाहरणात् । तदाह-वार्द्ध कमिति । वृद्धानां समूह इति विग्रहः । केदराद्यञ् च । कैदार्यम् , केदारकमिति । केदाराणां समूह इति विग्रहः । गणिकाया यञ् । यग्रहणाद् वुलो निवृत्तिः । गाणिक्यमिति । गणिकानां समूह इति विग्रहः । ठञ् कवचिनश्च । केदारादपीति । कवचिन्शब्दात् केदारशब्दाच समूहे ठञ् स्यादित्यर्थः । कार्वाचकमिति । ठञ् , एकादेशे टिलोपः । ब्राह्मणमाणववाडवाद्यन् । ब्राह्मण्यमित्यादि । ब्राह्मणानां माणवानां बाडवानां च समूह इति विग्रहः। मनोरपत्यं माणवः । अणि नस्य णत्वम्।
'अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः।।
नकारस्य च मूर्धन्यः तेन सिध्यति माणवः ॥' इति 'मनोर्जातावञ्यतौ षुक्च' इति सूत्रे भाष्यम् । पृष्ठादिति । यन इति शेषः । पृष्ठयः षडह इति । षष्णाम् अह्नां समाहारः षडहः, समाहारे द्विगुः । 'राजाहस्सखिभ्यः-' इति टचि टिलोपः । रथन्तरबृहद्वैरूपवैराजशाक्कररैवताख्यानि षट् पृष्ठाख्यस्तोत्राणि, तद्युक्तान्यहानि लक्षणया पृष्ठानि, तेषां समूह इति विग्रहः । ग्रामजन । समूह इत्येव । ग्रामतेत्यादि । च-' इति यलोपस्य प्राप्त्यभावात् । अतएव 'गोत्रोक्षोष्ट्र-' इत्यत्र तयोर्ग्रहणं सार्थकम्। अन्यथा गोत्रग्रहणेनैव सिद्धे तयोर्ग्रहणं न कुर्यादित्याहुः । यूनो भावो यौवनिका मनोज्ञादित्वाद् वुञ् । वार्धकमिति । यदि वृद्धत्वेऽपि वार्धकमिति प्रयोगोऽस्ति, तर्हि मनोज्ञादित्वं कल्पनीयमित्याहुः । ब्राह्मणमाणव । ननु त्रयोऽप्यमी वृद्धाः । तेभ्यः प्रकृतो यञवास्तु, वृद्धाद्यति यमि वा रूपे विशेषाभावात् । नापि खरे विशेषः, उभयथाप्याद्युदात्तत्वात् । स्त्रियां विशेषस्तु न शङ्कय एव, नपुंसकत्वात् । 'यत्रश्च' इत्यत्रापत्यग्रहणाच । ठञ् तु नानुवर्तिष्यते अखरितत्वादिति चेत् । सत्यम् , अवृद्धादपि कुतश्चिद्विधानार्थ यद्वचनम् । तत्सिद्धार्थानुवादकं वार्तिकमाहपृष्ठादिति । पृष्ठं स्तोत्रविशेषः । पृष्ठय इति । पृष्ठानां समूहः पृष्ठयः षडह इति