________________
प्रकरणम् २७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६१ 'गजसहायाभ्यां चेति वक्तव्यम्' (वा २७२१) गजता, सहायता । 'प्रह्वः खः ऋतौ' (वा २७२२.-२७२३)। अहीनः । अहर्गणसाध्यसुत्याकः क्रतुरित्यर्थः । ऋतौ किम्-श्राह्नः । इह खण्डिकादित्वादञ् । 'प्रष्टखोरेव' (सू ७८६) इति नियमाटिलोपो न । 'पर्धा णस् वक्रव्यः' (वा २७२४ )। १२५२ सिति च । (१-४-१६) सिति परे पूर्व पदसंज्ञं स्यात् । अभत्वादोर्गुणो न । पशूनां समूहः पार्श्वम् । १२५३ अनुदात्तादेर । (४-२-४४) कापोतम् । मायूरम् । १२५४ खण्डिकादिभ्यश्च । (४-२-४५) अस्यात् । खण्डिकानां समूहः ग्रामाणां जनानां बन्धनां च समूह इति विग्रहः । तलन्तानां स्त्रीत्वं लोकात् , 'तलन्तं स्त्रियाम्' इति लिङ्गान शासनसूत्राच्च । गजसहायाभ्यां चेति । आभ्यामपि समूहे तलिति वक्तव्यमित्यर्थः । अह्नः खः क्रतौ इति । वार्तिकमिदम् । कतौ वर्तमानाद् अहन्शब्दात् समूहेऽर्थे खप्रत्ययो वाच्य इत्यर्थः । अहीन इति । अहश्शब्देन सौत्यान्यहानि विवक्षितानि । तेषां समूह इति विग्रहः । अहन्शब्दात् खः, ईनादेशः । 'अह्नष्टखोरेव' इति रिलोप इति भावः। फलितमाह-अहर्गणेति । आह्न इति । अह्नां समूह इति विग्रहः । इह क्रत्वप्रतीतेन ख इति भावः । 'अचित्तहस्तिधेनोः-' इति ठकमाशङ्कयाह-इहेति । 'खण्डिकादिभ्यश्च' इत्यप्रित्यर्थः । नन्वेवं सति 'अन्' इति प्रकृतिभावस्याणि विहितस्यात्रासंभवाट्टिलोपः स्यादित्यत आह-अह्नष्टखोरेवेतीति । टिलोपाभावे सति 'अल्लोपोऽनः' इत्यकारलोपे आह्न इति रूपमिति भावः । पाणसिति । अणोऽपवादः । पशुशब्द उकारान्तस्त्रीलिङ्गः पार्श्वगतमस्थिवाची । तस्माद् णसि ओर्गुणे प्राप्ते-सिति च। 'सुप्तिङन्तं पदम्' इत्यतः पदमत्यनुवर्तते तदाह-सिति परे पूर्वपदसंज्ञमिति । सकार इद् यस्य स सित् । 'स्वादिष्वसर्वनामस्थाने' इत्येव सिंद भसंज्ञापवादोऽयम् । अभत्वादिति । पदत्वेनानेन भत्वस्य बाधादिति भावः। पर्थनां समूहः पार्श्वमिति । पशु अ इति स्थिते 'इकोऽसवर्णे-' इति शाकल्यह्रस्वप्रकृतिभावयोः 'सिति च' इति तत्रत्यवचनान्तरेण तन्निषेधे यणादेशे पार्श्वमिति रूपमिति भावः । अनुदात्तादेरञ् । समूह इत्येव । कापोतम् । मायूरमिति । 'लघावन्ते द्वयोश्च बह्वषो गुरुः' इति कपोतमयूरशब्दौ मध्योतु मत्वर्थलक्षणया बोध्यम् । ग्रामजन । वृत्तिकृता तु वार्तिकस्थसहायशब्दोऽपि सूत्रे प्रक्षिप्तः । अनुदात्तादरञ् । आपूपिकं शाष्कुलिकमित्यादौ परत्वाद् 'अचित्तहस्तिधेनोः' इति ठगेवेत्याशयेनेह सूत्रे चित्तवन्तमुदाहरति-कापोतमिति। 'लघावन्त-' इति फिटसूत्रेण कपोतमयूरशब्दौ मध्योदात्तौ। न च 'शकुनीनां च लघु पूर्वम्' इत्याादात्ताविमाविति शङ्कयम् । 'अन्त्यात्पूर्व लघुदात्तम्' इति तत्र