________________
३६२ ]
सिद्धान्तकौमुदी। [तद्धितेषु चातुरर्थिकखाण्डिकम् । १२५५ चरणेभ्यो धर्मवत् । (४-२-४६) काठकम् । छान्दोग्यम् । १२५६ अचित्तहस्तिधेनोष्ठक् । (४-२-४७) साक्तुकम् । हास्तिकम् । धेनुकम् । १२५७ केशाश्वाभ्यां यञ्छावन्यतरस्याम् । (४-२-४८) पक्षे ठगणौ । कैश्यम्, कैशिकम् । अश्वीयम् , अाश्वम् । १२५८ पाशादिभ्यो यः। (४-२-४६) पाश्या। तृण्या। धूम्या । वन्या । वात्या । १२५६ खलगोरथात् । (४-२-५०) खल्या । गव्या । रथ्या। १२६० इनित्रकट्यचश्च। दात्ताविति भावः । खण्डिकादिभ्यश्च । शेषपूरणेन सूत्रं व्या वष्टे-अञ् स्यादिति । समूह इति शेषः । श्राद्युदात्तार्थमिदम् । चरणेभ्यो धर्मवत् । चरणाः शाखाध्येतारः। धर्मेऽर्थ याभ्य प्रकृतिभ्यो ये प्रत्ययाः वक्ष्यन्ते ते तापः प्रकृतिभ्यः समूहे स्युरित्यर्थः । काठकमिति । कठानां समूह इति विग्रहः । 'गोत्रगरणाद्वज्' इति धर्मे वक्ष्यमाणो वुञ् समूहेऽपि भवति। छान्दोग्यमिति। छन्दोगाः स्मशारिवनः, तेषां समूह इति विग्रहः । 'छन्दोगौक्थिकयाज्ञिकवचनटाद् यः' इति धर्मे वक्ष्यमाणो ज्यः समूहेऽपि भवति । अचित्तहस्ति । अचित्ता अप्रारिनः, तद्वाचिभ्यः, हस्तिशब्दाद् धेनुशब्दाच्च समूहे ठक् स्यादित्यर्थः । साक्तुकमिति । सक्तूनां समूह इति विग्रहः । 'इसुसुक्तान्तात्कः' इत्युकः परत्वात् ठस्य कः । श्रादिवृद्धिः । हास्तिकमिति । हस्तिनां समूह इति विग्रहः, ठक्, इकः, टिलोपः, आदिवृद्धिः। धैनुकमिति । धेनूनां समूह इति विग्रहः । उकः परत्वात् ठस्य कः । अादिवृद्धिः । केशाश्वाभ्याम् । समूह इत्येव । केशाद्यञ् वा, अश्वाच्छो वेत्यर्थः । पक्ष इति । केशाद्यअभावे. 'अचित्त-' इति ठक् । अश्वाच् छाभावे अणितर्थः। कैश्यम् , कैशिकमिति । केशानां समूह इति विग्रहः । क्रमेण यञ्ठको । अश्वीयम् , श्राश्वमिति । क्रमेण छाणौ । पाशादिभ्यो यः। समूह इत्येव । पाश्येत्यादि। पाशानां तृणानां धूमानां वनानां वातानां च समूह इति विग्रहः। स्त्रीत्वं लोकात् । खलगोरथात् । समूह इत्येव । स्व, गो, रथ एभ्यो यः स्यादि यर्थः । खल्या गव्या रथ्येति । खलानां गवां रथानां च समूह इति विग्रहः । यद्यपि पाशादिष्वेव एषां पाठो युक्तः । तथापि उत्तरसूत्रे एषामेवानुवृत्यर्थ पृथक् पाठः । व्याख्यानादित्याहुः : खण्डिका । आद्युदात्तार्थमचित्ताट्टको बाधनार्थं च वचनम् । चरणेभ्यः । यस्याः प्रकृतेयः प्रत्ययो धर्मे वक्ष्यते, स तस्याः प्रकृतेः समूहेऽपि स्यादित्यर्थः। वुजादयो हि चरणेभ्यो वक्ष्यन्ते । तत्र 'चरणाद्धर्मानाययोः' इति तु वार्तिकम् । तदप्यनेनैवातिदेशसूत्रेण ज्ञाप्यते। काठकमित्यादि । गोत्रचरणाद् वुञ्। छान्दोग्यमिति । 'छन्दोगौक्थिक-' इति ज्यः । यञ्छाविति । यथासंख्यं स्तः ।