________________
प्रकरणम् २७] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६३ (४-२-५१) खलादिभ्यः क्रमात्स्युः । खलिनी । गोत्रा। रथकट्या । 'खलादिभ्य इनिर्वनव्यः' (वा २७३५)। डाकिनी । कुटुम्बिनी । श्राकृतिगणोऽयम् । १२६१ विषयो देश । (४-२-५२) षष्ठयन्तादणादयः स्युरत्यन्तपरिशीलितेऽर्थे स चेद्देशः । शिबीनां विषयो देशः शैबः । देशे किम्-देवदत्तस्य विषयो. ऽनुवाकः । १२६६. राजन्यादिभ्यो वुञ् । (४-२-५३) राजन्यकः। १२६३ इनित्रकट्यचश्च । स्युरिति । इनि त्र कटयच् एते स्युरित्यर्थः । खलिनीति । खलानां समूह इनि विग्रहः । इनिप्रत्यये नकारादिकार उच्चारणार्थः । स्त्रीत्वं लोकात् । नान्तत्वान्तीप् । गोत्रेति । गवां समूह इति विग्रहः। गोशब्दात् त्रः। स्त्रीत्वं लोकात् , टाप् । रथकट्येति । रथानां समूह इति विग्रहः । कटयचि ककारस्य नेत्त्वम् , अतद्धित इत्युक्तेः स्त्रीत्वाट्टाप् । खलादिभ्य इनिर्वतव्य इति । 'इनित्रकट्य वश्च' इति सूत्रे इनिग्रहणमकृत्वा 'गोरथात्त्रकट्यचौ' इत्येवं सूत्रं कृत्वा 'खलादिभ्य इनिः' इति पृथक्कर्तव्यमित्यर्थः ।।
विषयो देशे । समूह इति निवृत्तम् । तस्येत्यनुवर्तते । तस्य विषय इत्यर्थे प्रथमोच्चारितात् ष प्रयन्तात्प्रत्ययाः स्युरिति लभ्यते । तदाह-षष्ठयन्तादिति । विषयशब्दं व्याच-अत्यन्तपरिशीलितेऽर्थे इति । देवदत्तविषयोऽनुवाक इत्यत्र तथा दर्शनादिति भावः । तर्हि तत्रातिव्याप्तिः स्यादित्यत आह-स चेदिति । सः अत्यन्तपरिशीलितोऽर्थो देशश्चेदित्यर्थः । एवं च अत्यन्तपरिशीलिते देशे गम्ये प्रत्ययाः स्युरिति फलितम् । विषयशब्दो ह्ययं क्वचित् प्रामसमूहात्मके जनपदे वर्तते । तद्यथा-सामन्तस्य राज्ञो विषयोऽनेन लब्ध इति । क्वचिदिन्द्रियग्राह्ये वर्तते । तद्यथा चक्षुर्विषयो रूपमिति । क्वचिदन्यत्रावृत्तौ वर्तते । यथा मत्स्यानां विषयो जलमिति । अन्यत्र नास्तीति गम्यते । प्रकृते तु देवदत्तविषयोऽ नुवाक इतिवदत्यन्तपरिशीलिते वर्तते । तत्र विषयशब्देन अत्यन्तपरिशीलितेऽर्थे अवगते सति अनुवाकादिव्यावृत्त्यर्थ देशग्रहणम् । शिबीनां विषयो देश इति । अत्यन्तपरिचितो देश इत्यर्थः। देवदत्तस्य विषय इति । अत्यन्त. परिचितोऽनुवाक इत्यर्थः । अत्र देशस्यानवगमाद् न प्रत्यय इति भावः । विषय इति किम्-देवदत्तस्य कदाचिद्गन्तव्यो मार्गः । न च देवदत्तस्य गृहमित्यत्र अत्यन्तपरिचितदेशत्वात् प्रत्ययः स्यादिति वाच्यम् , जनपदसमूहात्मकात्यन्तपरिशीलितदेशस्यैवात्र विवक्षितत्वात् । राजन्यादिभ्यो वुञ् । तस्य विषयो देश इत्यर्थे राजन्यादिभ्यः षष्ठयन्तेभ्यो वुञ् स्यादित्यर्थः । अणोऽपवादः । राजन्यक ठगणाविति । केशशब्दादचित्तत्वेन ठक् । विषयो देशे । 'तस्य' इत्यनुवर्तत