________________
३६४ ]
।
सिद्धान्तकौमुदी । [तद्धितेषु चातुरर्थिकभौरिक्याद्यैपुकार्यादिभ्यो विधत्भक्तलौ । ( ४-२-२४) भौरिकीयां विषयो देशो भौरिकिविधम् । भौलिकिविधम् । ऐषुकारिभक्तम् । सारसायनभक्तम् । १२६४ सोऽस्यादिरिति च्छन्दसः प्रगाथेषु । ( ४-२ - ५५ ) अण् । पक्तिरादिरस्येति पाङ्कः प्रगाथः । ' स्वार्थ उपसंख्यानम् ( वा २७४४ ) । त्रिष्टुबेव त्रैष्टुभम् । १२६५ संग्रामे प्रयोजनयोद्धृभ्यः । ( ४-२-५६ ) 'सोsस्य' इत्यनुवर्तते । सुभद्रा प्रयोजनमस्य सङ्ग्रामस्येति सौभद्रः । भरता
इत्यत्र राजन्यानां विषयो देश इत्यर्थः । भौरिक्याद्यैषु । भौरिक्यादिभ्य ऐषुकार्यादिभ्यश्च षष्ठ्यन्तेभ्यो यथाक्रमं विधल्, भक्तल्, एतौ प्रययौ स्तो विषयो देश इत्यर्थे । भौरिकिविधमिति । भौरिकीणां विषयो देश इत्यर्थः । भौलिकिविधमिति । भौलिकीनां विषयो देश इत्यर्थः । ऐषुकारिभक्तमिति । ऐषुकारीणां विषयो देश इत्यर्थः । सारसायनभक्तमिति । सा सायनानां विषयो देश इत्यर्थः । इह नपुंसकत्वं लोकात् । सोऽस्यादिः । ऋद्वयमाम्नातं पादावृत्त्या ऋक्त्रयं संपद्यते । स च संप्रगाथ इति छन्दोगसूत्रे बहुचसूत्रे च प्रसिद्धम् । षष्टयेकवचनस्थाने सप्तमीबहुवचनमार्षम् । सोऽस्य प्रगाथस्य दिरित्यर्थे प्रथमान्तात् छन्दोविशेषवाचकाद् अणादिप्रत्ययाः स्युरित्यर्थः । अक्षेरेयत्ताविशेषो गयत्र्यादिश्छन्दः । पक्ङ्किरादिरिति । पङ्क्तिच्छन्दस्का ऋग् दिर्यस्य प्रगाथस्य न पाङ्क्तः प्रगाथ इत्युच्यत इत्यर्थः । स्वार्थ इति । छन्दोवाचिभ्यः स्वार्थे प्रणादिप्रत्ययस्योपसंख्यानमित्यर्थः । त्रैष्टुभमिति । क्लीबत्वं लोकात् । संग्रामे । अनुवर्तत इति । तथा च संग्राम इति सप्तम्यन्तं षष्ठ्या विपरिणतम् अस्येत्यनेनान्वेति त् इत्याह - ष्टयन्तादिति । विषयशब्दार्थमाह – अत्यन्तति भौरिया | आभ्यां गणाभ्यां यथासंख्यमेतौ प्रत्ययौ स्तः । औरिकिविधमित्यादि । क्लीबत्वं लोकात् । सोऽस्यादिरिति । छन्दो नामाक्षरेयत्तानिबन्धनपङ्कयादिरिह विवक्षितः । तद्वाचकात्प्रथमान्तादस्येत्यादिमति प्रत्ययः स्यात्, य श्रादिमान्स प्रगाथश्वेत् । प्रप्रथ्यत इति प्रगाथः । ' ग्रन्थ संदर्भे' इत्यस्माद् 'अकर्तरि च कारके -' इति कर्मणि घञ् । पृषोदरादित्वाद्रे फनकारयोर्लोपः । अन्ये तु प्रगीयत इति प्रगाथः 'गै शब्दे' इत्यतः ‘उषिकुषिगार्तिभ्यः स्थन्' इत्याहुः । यत्र द्वे ऋचावावृत्त्या तिस्रः क्रियन्ते स प्रगाथः – त्रैष्टुभमिति । 'स्वार्थिकाः प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति न्यायेन क्लबतेति भावः । संग्रामे । ननु 'प्रथमात्' इत्यधिकारात्प्रथमोच्चारितसंग्रामवाचिन एव प्रत्ययः प्राप्नोति न प्रयोजनयोभ्य इत्यत श्राह - सोऽस्येतीति । एवं च प्रथमान्तविशेषणद्वारा प्रयोजनयोद्धृणां प्रकृतित्वम् 'अस्य' इति
- तदस्य
-