________________
प्रकरणम् २७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६५ योद्धारोऽस्य संग्रामस्य भारतः । १२६६ तदस्यां प्रहरणमिति क्रीडायांणः। (४-२-५७) दण्डः प्रहरणमस्यां क्रीडायां दाण्डा । मौष्टा। १२६७ घनः सास्यां क्रियेति अः। (४-४-५८) घन्ताक्रियावाचिनः प्रथमान्तादस्यामिति सप्तम्यर्थे स्त्रीलिङ्गे अप्रत्ययः स्यात् । घन इति कृग्रहणादतिकारकपूर्वस्यापि ग्रहणम् । १२६८ श्येनतिलस्य पाते मे। (६-३-७१) श्येन तिल एतयोर्मुमागमः स्याद् अप्रत्यये परे पातशब्दे उत्तरपदे । श्येनपातोऽस्यां वर्तते श्यैनम्पाता मृगया। तिलपातोऽस्यां वर्तते तैलम्पाता खधा । श्येनतिलस्य संग्रामस्य प्रयोजनम् , तेऽस्य संग्रामस्य योद्धार इत्यर्थे प्रयोजनयोद्धृवाचिभ्यः प्रथमान्तेभ्यः अणादयः स्युरित्यर्थः। तदस्याम् । तद् अस्यां क्रीडायां प्रहरणमित्यर्थे प्रथमान्तात् प्रहरणवाचकाद् णप्रत्ययः स्यादित्यर्थः । प्रह्रियते अननति प्रहरणम् आयुधम् । दाण्डेति । अणि तु डीप स्यादिति भावः । मौष्टेति । मुष्टिः प्रहरणमस्यां क्रीडा. मिति विग्रहः । घत्रः सास्याम् । अस्यामित्यनन्तरं मृगयायामित्यादि स्त्रीलिङ्गविशेध्यमध्याहार्यम् । सा क्रिया अस्यां मृगयादिक्रियायामित्यर्थे घनन्तप्रकृतिकप्रथमान्ताकि यावाचिनो अः स्यादित्यर्थः। फलितमाह-घान्तादित्यादिना । कृदग्रहणादिति। तत्प्रयोजनमनुपदमेव वक्ष्यते । श्येनतिलस्य पाते । मुमागम इति । 'अरुर्द्विषत्-'इत्यतः तदनुवृत्तेरिति भावः । अप्रत्यय इति । अप्रत्यये परे यः पातशब्दः तस्मिन्नित्यर्थः । उत्तरपद इति । 'अलुगुत्तरपदे' इति तदधिकारादिति भावः । श्येनपात इति । पतनं पातः । भावे घञ् । श्यैनंपातेति । श्येनपातशब्दाद् घअन्ताद् ञः । यद्यपि पातशब्द एव घनन्तः तथापि कृग्रहणपरिभाषया श्येनपातशब्दस्यापि ग्रहणं बोध्यम् । श्येनस्य पात इति कृद्योगषष्ठ्या समासः । तथा च श्येनपातशब्दस्यादिवृद्धिः । तैलंपाता स्वधेति । स्वधाशब्दः स्त्रीलिङ्गः पित्र्यक्रियायां वर्तते, 'नमः स्वधायै' इत्यादिदर्शनात् । स्वधेत्यनेन प्रत्ययार्थविशेषणद्वारा संग्रामस्य प्रत्ययार्थत्वं वक्तुं शक्यमिति भावः । तथा चायमिह सूत्रार्थः-प्रयोजनवाचिभ्यो योद्धृवाचिभ्यश्च प्रथमान्तेभ्योऽस्येति षष्ठयन्तार्थेऽण स्यात् , स च षष्टयन्तार्थः संग्रामश्चेदिति । तदस्याम् । प्रथमान्तात्प्रहरणोपाधिकात्सप्तम्यन्तार्थेऽण स्यात् , स चेत्सप्तम्यन्तार्थः क्रीडा भवति । प्रहरणं किम् , माला भूषणमस्याम् । क्रीडायां किम् , खगः प्रहरणमस्यां सेनायाम् । घनः । कृद्ग्रहणादिति । तेन 'श्यैनंपाता' इत्यत्र 'रिणति' इत्यङ्गस्य विधीयमाना वृद्धिः सिद्धा । श्येनपातस्यापि घअन्तत्वादिति भावः । धनः किम् , श्येनपतनमस्यां वर्तते । क्रिया किम् , प्रकारोऽस्यां वर्तते । तदस्याम्' इति प्रकृते पुनः ‘सास्याम्' इत्युक्तिः