________________
३६६ ]
सिद्धान्तकौमुदी । [तद्धितेषु चातुरर्थिक
,
किम् - दण्डपातोऽस्यां तिथौ वर्तते दाण्डपाता तिथिः । १२६६ तदधीते तद्वेद । (४-२-५६) व्याकणमधीते वेद वा वैयाकरणः । १२७० क्रतूक्थादिसूत्रान्ताट्ठक् । ( ४-२ - ६० ) क्रतुविशेषवाचिनामेवेह ग्रहणम् । तेभ्यो मुख्यार्थेभ्यो वेदितरि, तत्प्रतिपादकग्रन्थपरेभ्यस्त्वध्येतरि । श्रग्निष्टोमिकः । वाजपेयिकः । उक्थं सामविशेषः, तल्लक्षणपरो ग्रन्थविशेषो लक्षणयोक्थम्, तदधीते वेद वा श्रौक्थिकः । ' मुख्यार्थात्तक्यशब्दाट्ठगणौ नेष्येते' । न्यायम्क्रीडायामिति नानुवर्तत इति सूचितम् तदस्यामिति प्रकृते पुनरस्यामिति ग्रहणात् । तदधीते । तदधीते इत्यर्थे तद्वेत्तीत्यर्थे च द्वितीयान्तादणदियः स्युरित्यर्थः । गुरुमुखादक्षरानुपूर्वीग्रहणमध्ययनम् । शब्दार्थज्ञानं वेदनम् । एतेन अध्ययनविधिरर्थज्ञानपर्यन्त इति कतिपयमीमांसकोक्तिः परास्ता, पृथग्ग्रहणवैयर्थ्यात् । यथाचैतत्तथा अध्वरमीमांसाकुतूहल वृत्तौ प्रपञ्चितमस्माभिः । वैयाकरण इति । अणि 'न य्वाभ्याम् -' इत्यैजागमः । क्रतूकथादि । ' तदधीते तद्वेद' इत्यर्थयोः ऋतु, उक्थादि, सूत्रान्त एभ्यः ठक् स्यादित्यर्थः । ऋतुविशेषवा - चिनामेवेति । न तु क्रतुशब्दस्यैवेत्यर्थः । अन्यथा उक्थादिगण एव क्रतुशब्दमपि पठेदिति भावः । ननु क्रतुविशेषाणां कथमध्ययनम् । अक्षरग्रहणात्मकत्वाभावादित्यत आह - तेभ्य इति । श्रमिष्टोमादिशब्दाः क्रतुविशेषेषु मुख्याः । तत्प्रतिपादकप्रन्थेषु तु गौणाः । तत्र क्रतुविशेषात्मकमुख्यार्थकेभ्यः श्रग्निष्टोमादिशब्देभ्यो वेदितरि प्रत्ययाः अग्निष्टोमादिक्रतुप्रतिपादकग्रन्थेषु लक्षणया विद्यमानेभ्यस्तु तेभ्यः अध्येतरीत्यर्थः श्रग्निष्टोमिक इति । श्रनिष्टोमं क्रतुं वेत्ति तत्प्रतिपादकग्रन्थमधीत इति वार्थः । उक्थशब्दः सामसु मुख्यः । सामलक्षणप्रन्थे प्रातिशाख्ये तु गौणः । तत्र गौणार्थका - देव उक्थशब्दात् ठगित्याह-- उक्थं सामविशेष इति । 'अग्निष्टोमस्तोत्रात्परं यत्साम गीयते' इति वृत्तिकृदुक्तेरिति भावः । भाष्ये तुं सामशब्दपर्याय उक्थशब्द 'क्रीडायाम्' इत्यस्य निवृत्तिर्यथा स्यादिति । श्रतएवाह - दण्डपातोऽस्यां तिथाविति । तदधीते । द्वितीयान्तादध्येतरि वेदितरि च प्रत्ययः स्यात् । द्विस्तद्ग्रहणमधीयाने विदुषि च प्रत्येकं विधानार्थम् । तेनोत्तरत्र क्रतुवसन्तादयः शब्दास्तत्प्रतिपादकग्रन्थे गौणा अप्यधीयानेऽपि प्रत्ययं प्राप्नुवन्ति । अन्यथा तेषामध्ययनासम्भवेन वेदितर्यैव प्रत्ययः स्यादिति भावः । क्रतूक्यादि । क्रतुविशेषेति । स्वरूपस्य तु न ग्रहणम् । तथात्वे सत्युक्थादिष्वेव क्रतुशब्दः पठ्येत, नापि क्रतुपर्यायाणामुक्थादिगणे यज्ञशब्दपाठादिति भावः । अध्येतरीति । अध्यतर्यपीत्यर्थः । निष्टोमिक इति । संस्थाविशेषवाचकस्याप्यभिष्टोमशब्दस्य तत्संस्थाके क्रतौ
--