________________
प्रकरणम् २७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ३६७ नैयायिकः । वृत्तिम् - वार्त्तिकः । लोकायतम् — लौकायतिक इत्यादि । 'सूत्रान्ताच्वकल्पादेरेवेष्यते' ( वा २७४४ ) । सांप्रहसूत्रिकः । अकल्पादेः किम् - काल्पसूत्रः । 'विद्यालक्षणकल्पान्ताच्चेति वक्तव्यम्' ( वा २७४४ ) वायसविधिकः । गौलक्षणिकः । श्रश्वलक्षणिकः । पाराशरकाल्पिकः । श्रङ्गक्षत्रधर्मत्रिपूर्वाद्विद्यान्तावेति वक्तव्यम्' ( वा २७४५ ) । आङ्गविद्यः । क्षात्रविद्यः । धार्मविद्यः । त्रिविधा विद्या त्रिविद्या, तामधीते वेद वा त्रैविद्यः I 'श्राख्यानाख्यायिकेतिहासपुराणेभ्यश्च' ( वा २७४६ ) यवक्रीतमधिकृत्य कृतमाख्यानमुपचाराद्यवक्रीतम्, तदधीते वेत्ति वा यावक्रीतिकः । वासवदत्तामधिकृत्य इति लक्ष्यते । मुख्यार्थादिति । सामवाचिन उक्थशब्दात्तु न ठक् । तस्मिन्निषिद्धे तदधीते इत्यण् च न भवतीत्यर्थः । भाष्ये तु मुख्यार्थ कादुक्थशब्दात् ठक् नेत्येव लक्ष्यते । उक्थादिगणपठिताद् न्यायादिशब्दात् ठकमुदाहरति--न्यायमिति । श्रधीते वेद वेति शेषः । नैयायिक इति । ठकि ऐजागमः । वृत्तिमिति । अधीते वेद वेति शेषः । वार्त्तिक इति । ठकि आदिवृद्धौ रपत्वम् । सांग्रहसूत्रिक इति । संग्रहाख्यं सूत्रमधीते वेत्ति वेत्यर्थः विद्यालक्षणेति । विद्या, लक्षण, कल्प एतदन्तादपि उक्तेऽर्थे ठगित्यर्थः । श्रङ्गेति । श्रङ्ग, क्षत्रधर्म, त्रि एतत्पूर्वकाद्विद्यान्तात् समासात् ठग् नेत्यर्थः । ततश्च श्रणेव । त्रिविधा विद्या त्रिविद्या इति । शाकपार्थिवादित्वाद्विधाशब्दस्य लोप इति भावः । तिस्रो विद्यास्त्रिविद्या इति न विग्रहः, 'दिक्संख्ये संज्ञायाम्' इति नियमात् । नापि तिस्रो विद्या अधीते वेद वेति तद्धितार्थे द्विगुः, तथा सति तद्धितस्य द्विगुनिमित्ततया 'द्विगोर्लुगनपत्ये ' इति लुगापत्तेः । तिसृणां विद्यानां समाहार इति द्विगुरप्यत्र निर्बाध एव । आख्यानेति । आख्यान, आख्यायिका, इतिहास, पुराण एभ्यश्च उक्तेऽर्थे ठग्वक्तव्य इत्यर्थः । तत्र आख्यानशब्देन श्रख्यायिकाशब्देन च श्राख्यान विशेषवाचिन आख्यायिकाविशेषवाचिनश्च ग्रहणम् । इतिहासपुराणशब्दयोस्तु स्वरूपयोरेव ग्रहणम् । श्राख्यानं नाम कथाप्रबन्धः । 'आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम्' इत्यमरः । 'इतिहासः पुरावृत्तम्' इति च ।
1
।
निरूढप्रयोगः । तल्लक्षणेत्यादि । तत्प्रतिपादकप्रातिशाख्यमित्यर्थः । नेष्येते इति । अनभिधानादिति भावः । त्रिविधेति । 'तिस्रो विद्या अधीते' इति विग्रहे तु तद्धितार्थे द्विगौ ‘त्रिविद्यः' इत्येव स्याद् 'द्विगोर्लुगनपत्ये' इति लुक्प्रवृत्तेरिति भावः । १ 'लभ्यते इति क । २ एवं सति 'त्रिविद्यम्' इति जाते विद्याशब्दान्तत्वाभावादुदाहरणं न संभवेदिति चिन्त्यमिदम् । अपिशब्दस्वारस्याद् 'न निर्बाधः ' इति पाठः प्रतीयते ।