SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३६८] सिद्धान्तकौमुदी। [द्वितेषु चातुरर्थिक कृता आख्यायिका वासवदत्ता । 'अधिकृत्य कृते ग्रन्थे' (सू १४६७) इत्यर्थे 'वृद्धाच्छः' (सू १३३७)।तस्य 'लुबाख्यायिकाभ्यो बहुलम्' इति लुप् । ततोऽनेन ठक् । वासवदत्तिकः। ऐतिहासिकः। पौराणिकः 'सर्वादेः सादेश्च लुग्वक्तव्यः' (वा २७४८) सर्ववेदानधीते सर्ववेदः । सर्वतन्त्रः । सवा तेकः । द्विगोर्ख'(सू १०८०) इति लुक् । द्वितन्त्रः । 'इकन्पदोत्तरपदाच्छतषष्टेः षिकन्पथः' ( वा २७४६-२७५०) पूर्वपदिकः । उत्तरपदिकः । शतपथिकः, शतपथिकी । षष्टिपथिकः, षष्टिपथिकी। (१२७१ ) क्रमादिभ्यो वुन् । (४-२-६१ ) 'सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च । वंशानुचरितं चेति पुराणं पञ्चलक्षणम् ॥' तत्र आख्यानादुदाहरति । यवक्रीतमिति । आख्यायिका या उदाहरतिवासवदत्तामिति । लुग्वक्तव्य इति । उक्तप्रत्ययस्येति शेष । सर्ववेद इति । अणो लुकि श्रादिवृद्ध्यभावः । सर्वतन्त्र इति । सर्वतन्त्राण्य धीते वेद वेत्यर्थः । सवार्तिक इति । वार्तिकेन सह सवार्तिकम् । तेन बहुव्रीहिः । 'वोपसर्जनस्य' इति सभावः । सवार्तिकं सूत्रमधीत इत्यर्थः । द्विगोरिति । द्वे तन्त्रे अधीते वेत्ति वेत्यर्थे तद्धितार्थे द्विगुनिमित्तत्वादणो लुकि अादिवृद्धयभावे द्वितन्त्र इति रूपमित्यर्थः । इकन पदोत्तरपदादिति । पदशब्द उत्तरपदं यस्य स पदोत्तरपदः, तस्मादुक्तेऽर्थे इकन्प्रत्ययो वक्तव्यः । शतषष्टेः षिकन्पथ इति । शतशब्दात् षष्टिशब्दाच्च परो यः पथिन्शब्दः तस्माद् उक्तेऽर्थे षिकन्प्रत्ययो वक्तव्य इत्यर्थः । पूर्वपदिक इति । पूर्वपदमधीते वेत्ति वेत्यर्थः । एवमुत्तरपदिकः। शतपथिक इति । शतपथं नाम वाजसनेयिब्राह्मणम् । तदधीते वेत्ति वेत्यर्थः । शतपथिकीति । टित्त्वात डीबिति भावः। एवं षष्टिपथिकः षष्टिपथिकीति । क्रमादिभ्यो वुन् । तदधीते तद्वेद इत्यर्थे इति शेषः । आख्यायिकेति । गद्यपद्यरूपो ग्रन्थविशेष इत्यर्थः । सर्वादेरिति । 'सादेः' इत्येव सिद्धे सर्वादिग्रहणमर्थवत्परिभाषाज्ञापनार्थम् । सवार्तिक इति । वार्तिकान्तमधीत इत्यर्थः । अन्तवचने अव्ययीभावः । 'अव्ययीभावे काले' इति सहस्य सभावः । इकन्निति। पदशब्द उत्तरपदं यस्य तस्मादिकन् । शतशब्दात्षष्टिशब्दाच्च परो यः पथिन्शब्दस्तदन्तात्तु षिकन् वाच्य इत्यर्थः । शतपथिक इति । वृत्तिकृता तु वार्तिके 'बहुलम्' इति पूरयित्वा 'शातपथः' इत्यणन्तमप्युदाहृतम् । तत्तु भाष्ये १ 'टिकन् पथः' इति क. ख. । अयमेव पाठो बालमनोर मासंमतः प्रतीयते, परं कौमुदीपुस्तकानामसंवादबाहुल्यादिह षिकन् निवेशितः । २ 'विकन्' इति पाठानुरोधेन 'षित्वात्' इति युक्तं स्यात् ।
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy