________________
प्रकणरम् २७] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६६ क्रमकः । क्रम पद शिक्षा मीमांसा क्रमादिः । १२७२ अनुब्राह्मणादिनिः। (४-२-६२) 'तदधीते तद्वेद' (सू १२६६ ) इत्यर्थे । ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणम् , तदधीतेऽनुब्राह्मणी । मत्वर्थीयेनैव सिद्धेऽएबाधनार्थमिदम् । १२७३ वसन्तादिभ्यष्ठक।(४-२-६३) वासन्तिकः । अथर्वाणमधीते पाथर्वणिकः। 'दाण्डिनायन-' (सू ११४५) इति सूत्रे निपातनाहिलोपो न । १२७४ प्रोक्ताल्लुक । (४-२-६४) प्रोकार्थकप्रत्ययात्परस्याध्येतृवेदितृप्रत्ययस्य लुक्स्यात् । पणनं पणः । 'अर्थे कविधानम्' इति कः, सोस्यास्तीति पणी। तस्य गोत्रापत्यं पाणिनः । १२७५ गाथिविदथिकशिगणिपणिनश्च । क्रमक इति । क्रममधीते वेत्ति वेत्यर्थः । क्रमादिगणं पठति-क्रमेत्यादि । क्रमादिरिति । अयं क्रमादिगण इत्यर्थः । पदकः शिक्षकः मीमांसक इत्युदाहरणानि। अनुब्राह्मणादिनिः । शेषपूरणेन सूत्रं व्याचष्टे-तदधीते तद्वदेत्यर्थे इति । इनिप्रत्यये नकारादिकार उच्चारणार्थः । तथा च नकारस्योपदेशेऽन्त्यत्वाभावान्नेत्संज्ञा । ननु 'अत इनिठनौ' इति मत्वर्थे इनिनैव सिद्धत्वादिदं व्यर्थमित्यत आहअरबाधनार्थमिति । भाष्ये तु प्रत्याख्यातमेवेदम् । वसन्तादिभ्यष्ठक । 'तदधीते तद्वेद' इत्येव । वासन्तिक इति । वसन्तवर्णनपरग्रन्थो वसन्तः । तमधीते वेत्ति वेत्यर्थः । अथर्वाणमिति । अथर्वणा प्रोक्लो वेदो लक्षणया अथर्वा, तमित्यर्थः । वस्तुतस्तु प्रोक्तप्रत्ययस्य 'ऋषिभ्यो लुग्वक्तव्यः' इति वचनाल्लुक् । आथर्वणिक इत्यत्र 'नस्तद्धिते' इति टिलोपमाशङ्कयाह-दाण्डिनायनेति । वान्तसंयोगपूर्वकत्वात्तु नाल्लोपः । अथ पाणिनिशब्दं व्युत्पादयितुमुपक्रमतेप्रोक्ताल्लुक् । प्रोक्तशब्देन प्रोक्तार्थप्रत्ययो विवक्षितः । अध्येतृवेदितृप्रत्ययस्येति प्रकृतत्वान्लभ्यते, तदाह-प्रोक्लार्थकेति । पणनं पण इति । स्तुतिरित्यर्थः । ननु 'हलच' इति घनि उपधावृद्धिः स्यादित्यत आह-घार्थ इति । पणीति । 'श्रत इनिठनौ' इति मत्वर्थे इनिः। तस्येति । पणिनो गोत्रापत्ये तस्यापत्यमित्यणि पाणिन इति रूपमित्यर्थः । अत्र अणः अपत्यत्वात्तस्मिन् परे 'इनण्यनपत्ये' इति न दृष्टम् । षित्त्वफलं दर्शयति-शतपथिकीति । अण्वाधनार्थमिति । भाष्ये तु प्रत्याख्यातमेवेदं सूत्रं तद्रीत्या त्वणिष्यत इति, अनभिधानान्नेति वा बोध्यम् । वसन्ता । उक्थादिष्वेव वसन्तादीन् पठित्वा, वसन्तादिषु वा उक्थादीन् पठित्वा, अन्यतरच्छक्यमवक्तुम् । अथर्वाणमिति । अथर्वणा प्रोक्त उपचारादथर्वा । यद्वा 'तेन प्रोक्तम्' इत्यधिकारे 'ऋषिभ्यो लुग्वक्तव्यः' वसिष्ठो विश्वामित्रोऽनुवाक इत्युदाहृत्य 'अथर्वणो वा' 'अथर्वा' आथर्वणः' इति भाष्योक्तेः साधुः ।