________________
३७० ]
सिद्धान्तकौमुदी । [तद्धितेषु चातुरर्थिक
1
( ६-४-१६५) एतेऽणि प्रकृत्या स्युः । इति टिलोपो न । तो यून्यपत्ये इन् । पाणिनिः । १२७६ रयक्षत्रियार्षञितो यूनि लुगणिः । (२-४-५८ ) रायप्रत्ययान्तात्क्षस्त्रियगोत्रप्रत्ययान्तादृष्यभिधायिनो गोत्रप्रत्ययान्ताद् जितश्च परयोर्युत्राभिधायिनोरणिनोर्लुक्स्यात् । कौरव्यः पिता, कौरव्यः पुत्रः । श्वाफल्कः पिता, वाफल्कः पुत्रः । वासिष्ठः पिता, वासिष्ठः पुत्रः । तैकायनिः पिता, प्रकृतिभावाभावाट्टिलोपे प्राप्ते । गाथिविदथि । 'इनण्यन त्ये' इत्यतः 'अणि’ इत्यनुवर्तते । 'प्रकृत्यैकाच्' इत्यतः 'प्रकृत्या' इति च । तदाह--ए - एतेऽणि प्रकृत्या स्युरिति । गाथिन्, विदथिन, केशिन्, गणिन्, परिणन् एन इत्यर्थः । अपत्येऽप्यणि प्रकृतिभावार्थमिदम् । ततो यून्यपत्य इति । मूलप्रकृतिः पणी । तदपेक्षया चतुर्थेऽपत्ये यूनि विवक्षिते पाणिनशब्दाद् गोभणन्ताद् अत इञि पाणिनिरिति रूपमित्यर्थः । पाणिनशब्दस्य अनन्तरापत्य प्रत्ययान्तत्वे तु ततोऽनन्तरापत्ये मूलप्रकृति पयपेक्षया तृतीये गोत्रापत्ये इब् न संभवति 'एको गोत्रे' इति नियमात् । नापि मूलप्रकृत्यपेक्षया चतुर्थापत्ये यूनि पाणिन शब्दादनन्तरापत्य प्रत्ययान्तादिञ् संभवति, 'गोत्रायून्यस्त्रियाम्' इति यून्यपत्ये गोत्रप्रः ययान्तादेवापत्य प्रत्ययनियमात् । अतो गोत्राण्प्रत्ययान्तात् पाणिनशब्दाद्यूनि इञ्प्रत्ययः इत्युक्तमिति बोध्यम् । अत्र इत्रो लुकमाशङ्कितुमाह – रायक्षत्रियार्ष । रयादयः सर्वे गोत्रप्रत्यया एव गृह्यन्ते, ‘गोत्राद्यूनि’ इत्युक्तेः । तदाह – गोत्रप्रत्ययान्तादित्यादि । ण्यप्रत्ययस्योदाहरति- कौरव्य इति । कुरो: गोत्रापत्यं कौरव्यः । कुर्वादिभ्यो रायः । कौरव्यस्यापत्यं युवेत्यर्थे त इञ् । तस्यानेन लुक् । क्षत्त्रियप्रत्ययस्योदाहरति- श्वाफल्क इति । श्वफल्कस्य गोत्रापत्यं श्वापकः । 'ऋष्यन्धक -' इत्यण् । श्वाफल्कस्यापत्यं युवेत्यर्थे त इञ् । तस्यानेन लुक् । श्रर्षप्रत्ययस्यो • दाहरति - वासिष्ठ इति । वसिष्ठस्य गोत्रापत्यं वासिष्ठः । ऋष्यण् । वासिष्ठस्यापत्यं युवेत्यर्थे इञ् । तस्यानेन लुक् । बित उदाहरति — तैकायनिरिति ।
1
गाथिविदथि । 'इनरायनपत्ये' इति सिद्धे अपत्येऽप्यरिण प्रकृ तेभावार्थमयमारम्भः । गाथिनः । वैदथिनः । कैशिनः । गाणिनः । पाणिनः । रयन्तत्रियार्ष । कौरव्य इति । 'कुर्वादिभ्यो ण्यः' तत इञो लुक् । कौरव्यः पुत्रः । ननु तिकादिषु कौरव्यशब्दः पठ्यते, तथा च कौरव्यायणिरिति फित्रा भाव्यम्, न त्विजेति चेत् । सत्यम्, 'कुरुनादिभ्यो ण्यः' इति क्षत्त्रियगोत्रे विहितो ओर यस्तदन्तं तत्र पठ्यते । प्रकृते तु ब्राह्मणगोत्रप्रत्ययान्तमित्यवधेयम् । श्वाफल्क इति । 'ऋष्यन्धक - ' इत्यण् । तत इओ लुक्, श्वाफल्कः पुत्रः । वासिष्ठ इति । ऋष्यण तत इज