SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् २७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ३७१ तैकायनिः पुत्रः । 'एभ्यः' किम् - शिवाद्यय् । कौहडः पिता । तत इञ् । कौहडि: पुत्रः । 'यूनि' किम् - वामरथ्यस्य च्छात्रा वामरथाः, इत्यणो लुक्तु न भवति, श्रार्षग्रहणेन प्रतिपदोक्तस्य ऋष्यण एव ग्रहणात् । पाणिनिना प्रोक्तं पाणिनीयम् । ‘वृद्धाच्छः' ( सू १३३७ ) | 'इञश्च' ( सू १३३३ ) इत्यण् तु न । गोत्रे य इञ् 1 तिकस्य गोत्रापत्यं तैकायनिः । तिकादिभ्यः फिञ् । तैकायनेरपत्यं युवेत्यर्थे तस्यापत्यमित्यण् । तस्यानेन लुक् । वामरथ्यस्येति । वामरथस्य गोत्रापत्यं वामरथ्यः । कुर्वादिभ्यो रयः । वामरथ्यस्य छात्रा इत्यर्थे 'करावादिभ्यो गोत्रे' इति छापवादः अण्, तस्यानेन लुङ् न भवति, तस्य युवार्थकत्वाभावादिति भावः । इत्यणो लुक्तु न भवतीति । 'रायक्षत्रिय-' इति सूत्रेण पाणिनिरित्यत्र इनो लुङ् न भवतीत्यर्थः । कुत इत्यत आह - - आर्ष ग्रहणेनेति । पाणिनिशब्दे परिणन्शब्दादण्प्रत्ययस्य औत्सर्गिकस्य वस्तुगत्या ऋषिवाचित्वेऽपि ऋषौ प्रतिपदोक्तत्वाभावान्न ततः परस्य इञो लुगिति भावः । न च पणिन्शब्दाद्गोत्रापत्ये ‘ऋष्यन्धक—' इत्यणेव कुतो न स्यादिति वाच्यम्, यत्र औत्सर्गिकस्य अण इजादिना बाधः प्रसक्तः, तत्रैव तद्बाधनार्थम् ऋष्यणः प्रवृत्तेः । वस्तुतस्तु 'वान्यस्मिन्सपिण्डे -' इति सूत्रभाष्ये अत्रिशब्दाद् 'इतश्चानिञः' इति ढकि आत्रेयशब्दादिनो 'रायतत्त्रियार्ष -' इति लुगित्युक्तत्वादिदमुपेक्ष्यम् । 'राय क्षत्रिय - ' इत्यत्र तु ऋषिवाचकस्य रूढस्यैव ग्रहणम् । परिणन्शब्दः, तदपत्ये पाणिनशब्दश्व न ऋषिवाचकौ । अत श्रौत्सर्गिकाणन्त एव पाणिनशब्द इति शब्देन्दुशेखरे प्रपचितम् - पाणिनिनेति । पाणिनिना प्रोक्तमित्यर्थे 'तेन प्रोक्तम्' इत्यणं बाधित्वा 'वृद्धाच्छः' इति छप्रत्यये ईयादेशे पाणिनीयशब्द इत्यर्थः । ननु पाणिनिशब्दात्तद्धिते विवक्षिते 'यूनि लुक्' इति इञो लुकि सत्यपि प्रत्ययलक्षणेन इञन्तत्वमाश्रित्य छापवादः अण् स्यादित्यत आह - इञश्चेत्यण् तु नेति । लुक्। वासिष्ठः पुत्रः । तैकायनिरिति । 'तिकादिभ्यः फिञ्' ततोऽणो लुक् । तैकायनिः पुत्रः । वामरथा इति । कुर्वादित्वाद् रयः । ततो वृद्धाच्छं बाधित्वा ‘कण्वादिभ्यो गोत्रे' इति शैषिकोऽय् । इतीति । 'ण्यक्षत्त्रियार्ष -' इत्युदाहृतसूत्रेणेत्यर्थः । ऋष्यण एवेति । पाणिनशब्दे तु श्रौत्सर्गिक एवाणिति भावः । नन्विदं 'वान्यस्मिन् सपिण्डे--' इति सूत्रस्थ भाष्यकैयटाभ्यां विरुध्यते । अत्रेर्युवापत्यानि पुमांसोऽत्रयः, 'इतश्चानिञः' इति ढक् तदन्ताद्यूनि ' त इञ्' तस्य 'रायतत्त्रिय- ' इति लुक्, 'अत्रिभृगुकुत्स -' इति ढकोऽपि लुक् इत्युक्तत्वात् । 'ऋष्यन्धक -' इत्यण एव ग्रहणे तु ढकोऽप्रहणात्ततः परस्येत्रो लुङ् न स्यादित्याहुः । वस्तुतस्तु 'दाक्षीपुत्र
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy