________________
३७२ ] सिद्धान्तकौमुदी। [तहितेषु चातुरर्थिकतदन्तादिति वक्ष्यमाणत्वात् । ततोऽध्येतृवेदित्रणो लुक् ।स्वरे स्त्रियां च विशेषः । पाणिनीयः । पाणिनीया । १२७७ सूत्राच्च कोपधात । (४-२-६५) सूत्रवाचिनः ककारोपधादध्येतृवेदितृप्रत्ययस्य लुक् स्यात् । प्रोकार्थ प्रारम्भः । अष्टावध्यायाः परिमाणमस्य अष्टकं पाणिनेः सत्रम् । तदधीयते विदन्ति वा अष्टकाः । 'संख्याप्रकृतिकादिति वाच्यम्' । नेह-माहावार्तिकः । कालापकः । पाणिनिशब्दे इञ् युवापत्यार्थक एव, न तु गोत्रार्थकः, वसंज्ञया गोत्रसंज्ञाया बाधादिति भावः । यद्यपि अपत्याधिकारादन्यत्र न पारिभाषिकं गोत्रमित्युक्तम् । तथाप्यत्र पारिभाषिकमेव गोत्रं गृह्यत इति उपरिष्टाद् 'इन' इति सूत्रे वक्ष्यते । तत इति । पाणिनीयशब्दादित्यर्थः । पाणिनीयमधीते वेत्ति वेत्यर्थे पाणिनीयशब्दादणि 'प्रोक्ताल्लुक्' इति तस्य लुगिति भावः । ननु असत्यपि अध्येत. वेदितृप्रत्ययस्याणो लुकि पाणिनीयशब्दः सिध्यत्येवेत्यत आह--स्वरे स्त्रियां च विशेष इति । अध्येतृवेदितप्रत्ययस्याणो जुगभावे प्रत्ययस्वरे. णान्तोदात्तत्वं स्त्रियां च ङीप् स्यात् । लुकि तु सति छादेशस्य ईयादेशस्य ईकारः प्रत्ययस्वरेणोदात्तः टाप् च सिध्यति । तदाह--पाणिनीयः, पाणिनीयेति । सूत्राच्च कोपधात् । ककारोपधादित्यनन्तरं परस्येति शेषः । ननु 'प्रो. क्ताल्लुक्' इत्येव सिद्धे किमर्थमिदमित्यत आह-अप्रोतार्थ प्रारभ्भ इति । अप्रोक्तार्थादपि प्रत्ययात्परस्य लुगर्थमित्यर्थः । अष्टकमिति । तदस्य परिमाणमित्यधिकारे 'संख्यायाः संज्ञासंघसूत्राध्ययनेषु' इति 'संख्याया अतिशदन्तायाः कन्' इति च सूत्ररूपेऽर्थे कन् । अष्टका इति । अष्टकशब्दादध्येतृवेदितृप्रत्ययस्य अनेन लुक् , कोपधात्सूत्रवाचिनः परत्वादिति भावः । संख्याप्रकृतिकादिति । 'सूत्राच कोपाधात्' इति लुक् संख्याप्रकृतिकप्रत्ययान्तादेव परस्य भवतीत्यर्थः । माहा वार्तिक इति । महावार्तिकं नाम सूत्रम् , तदधीते वेत्ति वा माहावार्तिकः । अत्र अणो पाणिनेः' इति भाष्यप्रयोगादस्य साधुत्वमिति ज्ञेयम् । इअश्चेतीति । 'यनि लक' इति लुक्यपि प्रत्ययलक्षणेन इञन्तमस्तीति भावः । गोत्रे य इति । 'गोत्रमिह शास्त्रीयम् , न तु लौकिकमिति तत्र वक्ष्यते' इति भावः । स्वर इति । लुगभावे प्रत्ययस्वरेणान्तोदात्तत्वं स्त्रियां च ङीप्स्यात् । लुकि सति त्वीकार उदात्तः, टाप् च सिध्यतीति भावः । अष्टकमिति । 'संख्यायाः संज्ञासङ्घसूत्राध्य यनेषु' इति ‘संख्याया अतिशदन्तायाः कन्' । संख्याप्रकृतिकादिति । संख्याप्रकृतिकप्रत्ययान्तादित्यर्थः। कालापक इति । कलापिन्शब्दात्प्रोक्तार्थेऽण , 'सब्रह्मचारी-' इत्युपसंख्यानाट्टिलोपः। ततोऽध्येतर्यण् , तस्य 'प्रोक्ताल्लुक्' इति लुक् । कालापानामाम्नाय इत्यर्थे 'गोत्रचरणाद्