________________
प्रकरणम् २७ ] बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ३७३
१२७८ छन्दो ब्राह्मणानि च तद्विषयाणि । ( ४-२ -६६ ) छन्दांसि ब्राह्मणानि च प्रोक्तप्रत्ययान्तानि तद्विषयाणि स्युः । अध्येतृवेदितृप्रत्ययं विना न प्रयोज्यानीत्यर्थः । कठेन प्रोक्तमधीयते कठाः । वैशम्पायनान्तेवासित्वाणिनिः । तस्य 'कठचरकात् -' ( सू १४८७ ) इति लुक् । ततोऽण् । तस्य 'प्रोक्लाल्लुक्' ( सू १२७४ ) ।
1
>
न लुक् । छन्दोब्राह्मणानि । छन्दांसि मन्त्राः, ब्राह्मणानि विधिवाक्यानि । तेषां द्वन्द्वः, वेद इति यावत् मन्त्रब्राह्मणयोर्वेदनामधेयमिति स्मरणात् । 'प्रोक्ताल्लक' इत्यतः प्रोक्तादित्यनुवर्तते । प्रथमा बहुवचनेन विपरिणम्यते । प्रोक्तप्रत्ययान्तानीति लभ्यते । तदाह—छन्दांसीत्यादिना । तद्विषयाणीत्यत्र तच्छब्देन अध्येतृवेदितृप्रत्यया विवक्षिताः। तैर्विषयः अविनाभावो येषां तानि तद्विषयाणि, 'षिञ् बन्धने' विशिष्य सयो बन्धः विषयः, अविनाभाव इति यावत् । श्रध्येतृवेदितृप्रत्ययसंयुक्तान्येव स्युरित्यर्थः । फलितमाह — अध्येतृवेदितृप्रत्ययं विना न प्रयोज्यानीत्यर्थ इति । पाणिनिना प्रोक्तं पाणिनीयं व्याकरणम् । पाणिनीयास्तदध्येतारो वेदितारो वेतिवद् अध्येतृप्रत्ययं विनापि प्रयोगे प्राप्ते नियमार्थमिदम् । कठेनेति । कठेन प्रोक्लमधीयत इत्यर्थे कठा इत्युदाहरणमिति भावः । तदुपपादयति - वैशम्पायनेति । कठेन प्रोक्तमित्यर्थे तेन प्रोक्तमित्यणपवादः 'वैशम्पायनान्तेवासिम्यश्च' इति णिनिरित्यर्थः । तस्येति । णिनेः ‘कटचरकाल्लुक्' इत्यनेन लुगित्यर्यः । एवं च कठेन प्रोक्तो वेदभागः कठ इति स्थितम् । ततोऽणिति । तस्माद् लुप्तप्रोक्तप्रत्ययकात् कठशब्दात् तदधीते इति अणित्यर्थ । तस्य प्रोक्ताल्लुगिति । तस्याध्येत्रणः ‘प्रोक्लाल्लुक्' इति लुगित्यर्थः । तथा च कठेन प्रोक्तमधीयते कठा इत्येवं कठशब्दस्य लुप्तप्रोक्तप्रत्ययान्तस्य अध्येत्रणा सहैव प्रयोगार्हता, नतु तेन बिना केवलप्रोक्तप्रत्ययान्तस्येति भावः ।
वुञ्' ततोऽध्येतृवेदित्रणो लुक् स्वरे स्त्रियां च विशेषः । छन्दोब्राह्मणानि । इह मण्डूकप्लुत्यानुवृत्तं 'प्रोक्तात्' इति पञ्चम्यन्तं जसन्तत्वेन विपरिणम्यते 'छन्दोब्राह्मणानि' इत्यनेन सामानाधिकरण्यात् । प्रोक्तशब्दश्च प्रोक्तार्थके प्रत्यये लाक्षणिक इत्याशयेनाह - प्रोक्रप्रत्ययन्तानीति । तद्विषयाणीति । तच्छब्देन अध्येतृवेदितृप्रत्ययः परामृश्यते, विषयशब्दस्त्विहानन्यभाववाची न तु देशवाचीत्यभिप्रेत्याहप्रत्ययं विना न प्रयोज्यानीत्यर्थ इति । पाणिनीयं पाणिनीया इतिवदनियमेन प्रयोगे प्राप्ते नियमार्थमेतदिति भावः । छन्दोग्रहणादेव सिद्धे ब्राह्मणग्रहणं चिरन्तनप्रोक्तब्राह्मणानामेव तद्विषयत्वार्थम् । तेनेह न - याज्ञवल्क्येन प्रोक्तानि ब्राह्मणानि