________________
३७४]
सिद्धान्तकौमुदी। [तद्धितेषु चातुरर्थिक
अथ चातुरर्थिकाः। १२७६ तदस्मिन्नस्तीति देशे तन्नाम्नि। (४.२-६७) उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरः । १२८० तेन निवृत्तम् ।। ४-२-६८) कुशा. म्बेन निवृत्ता कौशाम्बी नगरी । १२८१ तस्य निवासः । (४-२-६६) शिबीनां निवासो देशः शबः । १२८२ अदूरभव । (४-२-७०) विदिशाया अदूरभवं नगरं वैदिशम् । चकारेण प्रागुकास्त्रयोऽर्थाः सन्निधाप्यन्ते, तेन वक्ष्यमाणप्रत्ययानां चातुरर्थिकत्वं सिध्यति । १२८३ पोरञ् । (४-२-७१) ___ अथ चातुरर्थिकान् प्रत्ययान् वक्तुमुपक्रमते। तस्मिन्नम्तीति। तदस्मिन्नस्तीत्यर्थ प्रथमोच्चारितात्प्रथमान्तादणादयः स्युः। प्रत्ययान्तेन प्रकृतिनामके देशे गम्य इत्यर्थः। प्रसिद्धदेशग्रहणार्थ इतिशब्दः । मतुपोऽपवादः । तेन निवृत्तम् । देशे तन्नाम्नीत्यनुवर्तते । तेन निर्धत्तमित्यर्थे तृतीयान्तादणादयः स्युः तन्नाम्नि देशे इत्यर्थः । तस्य निवासः । तन्नाम्नि देशे इत्येव । तस्य निवास इत्यर्थे षष्ठ्यन्तादणादयः स्युः तन्नाम्नि देशे इत्यर्थः । स्वत्ववान् विषयः । निवासस्तु वसतिमात्रं स्वत्वास्वत्वसाधारणमित्याहुः । अदरभवश्च । 'तस्य' इति 'तन्नाम्नि देशे' इति चानुवर्तते । तस्य अदूरभव इत्यर्थे षष्ठ्यन्तादणादयः स्युः तन्नाम्नि देशे इत्यर्थः । नन्वत्र चकारः किमर्थ इत्यत आह-चकारेणेति । अदूरभव इति विध्यनन्तरं प्रागुतात्रयोऽर्थाः पुनरुपस्थाप्यन्त इत्यर्थः । किमर्थमित्यत आह-तेनेति । अन्यथा संनिहितत्वाद् अदूरभव इत्येव उत्तरविधिष्वनुवर्तेतेति भावः । चातुरर्थिकत्वमिति । चतुरा भव इत्यर्थे याज्ञवल्कानि । यजन्तात् 'करवादिभ्यो गोत्रे' इत्यण् , 'आपत्यस्य च-' इति यलोपः। याज्ञवल्क्यादयो हि पाणिन्यपेक्षया नूतना इति वृत्तिकृतां व्यवहारः । चकारोऽनुक्तसमुच्चयार्थः । तेन काश्यपिनः कौशिकिन इत्यत्र कल्पेऽपि तद्विषयत्वं सिद्धम् । काश्यपकौशिकाभ्यामृषिभ्याम्-' इति प्रोक्ते णिनिः, अध्येत्रणो जुक् । छन्दोब्राह्मणानीति किम् , पाणिनीयं व्याकरणम् ॥ इति रक्ताद्यर्थकाः ॥
अथ चातुरर्थिकाः। तदस्मिन् । अस्तीत्युपाधिकात्प्रथमान्तादस्मिन्निति ससम्यन्तार्थे यथाविहितं प्रत्ययः स्यात्प्रत्ययान्तनामा देशश्चेत् । तत्प्रत्ययान्तं नाम यस्येति बहुव्रीहिः । मतुपोऽ. यमपवादः । इतिशब्दस्तु सकललोकप्रसिद्ध देशे यथा स्यात्, न त्वाधुनिकसंकेतेऽपीत्येतदर्थः । उत्तरसूत्रत्रयेऽपि 'देशे तन्नाम्नि' इत्यनुवर्तते । तेन निवृत्तम् । अन्तर्भावितण्यर्थवृत्तेः कर्मणि क्तः । अदर । अदूरमन्तिकम् , तत्र भवतीत्यदूरभवः, निपातनात्सप्तमीसमासः । चातुरर्थिकत्वमिति । चतुर्णामर्थानां समाहारश्चतुरर्थी ।