________________
३४८ ]
सिद्धान्तकौमुदी। [तद्धितेषु चातुरर्थिक(४-२-१२) द्वीपिनो विकारो द्वैपम् । तेन परिवृतो द्वैपो रथः । एवं वैयाघ्रः । १२१४ कौमारापूर्ववचने । (४-२-१३) कौमार इत्यविभक्तिको निर्देशः। अपूर्वस्वे निपातनमिदम् । अपूर्वपति कुमारी पतिरुपपनः कौमारः। यद्वाअपूर्वपतिः कुमारी पतिमुपपन्ना कौमारी भार्या । १२१५ तत्रोद्धृतममत्रेभ्यः। (४-२-१४) शरावे उद्धतः, शाराव प्रोदनः । उद्धरतिरिहोद्धरणपूर्वके निधाने वर्तते । तेन सप्तमी। उद्धृत्य निहित इत्यर्थः । १२१६ स्थगिडला. च्छयितरि व्रते । (४-२-१५) तत्र इत्येव । समुदायेन चेद् व्रतं गम्यते । चानुवर्तते तृतीयान्ताद् द्वैपशब्दाद्वैयाघ्रशब्दाच्च परिवृतो रथ इत्यर्थे अञ् स्यादित्यर्थः अणोऽपवादः । स्वरे विशेषः। द्वीपिन इति । द्वीपी व्याघ्रः, तस्य विकारः चर्मेत्यर्थे 'प्राणिरजतादिभ्यः' इत्यभि टिलोपे द्वैपशब्द इत्यर्थः । एवं वैयाघ्र इति । व्याघ्रस्य चर्म वैयाघ्रम् । अनि 'न ग्वाभ्याम्-' इत्यैच् । तेन परिवृतो वैयाघ्र इति भावः । कौमारापूर्ववचने।'तेन' इति परिवृतो रथ इति च निवृत्तम्। अविभक्तिक इति। लुप्तप्रथमाक इति भावः । अपूर्वशब्दो भावप्रधान इत्याह-अपूर्वत्वे निपातनमिदमिति । न पूर्वः पतिर्यस्याः सा अपूर्वपतिः, तां कुमारीमुपयतवान् पतिरित्यर्थ द्वितीयान्तात् कुमारीशब्दादण् स्यादित्येकोऽर्थः । कुमारी अपूर्व पतिमुपपन्नेत्यर्थे प्रथमा. न्तात्कुमारीशब्दादण् स्यादित्यन्योऽर्थः । ये उदाहरति-अपूर्वपतिमिति । द्वितीये उदाहरति-यद्वेत्यादि । आये उपयन्तरि प्रत्ययः । द्वितीये उपयतायां स्वार्थे प्रत्यय इति विवेकः । तत्रोदधृतम् । तत्रोद्धृतमित्यर्थे अमत्रवाचकशब्दात् सप्तम्यन्तात् प्रत्ययः स्यादित्यर्थः । अमत्रं भाजनं शरावादि । ननु उद्धरणे पृथक्करणे शरावस्यापादानत्वात् कथं सप्तमीत्यत आह-उद्धरतिरिहेति । 'सास्मिन्पौर्णमासी' इत्यतः प्राक् 'तत्र' इत्यनुवर्तते। स्थण्डिलाच्छयितरि। स्थण्डिलशब्दात्सप्तम्यन्ताद् वर्तत इति भावः । कौमारा। तेनेति निवृत्तम् । 'अपूर्व' इति भावप्रधानो निर्देश इत्याह-अपूर्वत्व इति । अपूर्वत्वं तु स्त्रिया एवेष्यते, पुरुषस्तु अपूर्वभार्योऽस्तु वा मा वेत्यनाग्रहः । अपूर्वपतिमिति । न पूर्वः पतिर्यस्या इति बहुव्रीहिः । कौमारः पतिरिति । द्वितीयान्तात्कुमारीशब्दादुपयन्तरि प्रत्ययः । कौमारीति । इह कुमारीशब्दात्प्रथमान्तात्स्वार्थे प्रत्ययः, 'टिड्ढाण-' इति डीप् । तत्रोदधृत । 'सास्मिन्पौर्णमासी-' इति सूत्रात्प्राक् 'तत्र' इत्यधिकारः । पात्रवाचिभ्यः सप्तम्यन्तेभ्य उद्धृतमित्यर्थे यथाविहितं प्रत्ययाः स्युः । शाराव इति । भुक्तोच्छिष्ट इत्यर्थे इति वृत्तिकृत् । अवशिष्ट इति तदर्थः । 'उच्छिनष्टि, न सर्व जुहोति' इति कल्पसूत्रव्यवहारात् । सप्तमीति । निधानक्रियापेक्षया अधिकरणत्वादिति भावः।