________________
[ ३४७
प्रकरणम् २७ ] बालमनोरमा-तत्त्वबोधिनीसहिता ।
'सिद्धे यस्येति लोपेन किमर्थं ययतौ डितौ । ग्रहणं माsतदर्थे भूद्वामदेव्यस्य नव्हवरे ॥' इति भाष्यम् । १२११ परिवृतो रथः । ( ४-२ - १० ) वस्त्रैः परिवृतो वास्त्रो रथः । रथः किम्-वस्त्रेण परिवृतः कायः । समन्ताद्वेष्टितः परिवृत उच्यते । तेनेह नछात्रैः परिवृतो रथः । १२१२ पाण्डुकम्बलादिनिः । ( ४-२ - ११ ) पाण्डुकम्बलेन परिवृतः पाण्डुकम्बली । पाण्डुकम्बलशब्दो राजास्तरणवर्णकम्बलस्य वाचकः । मत्वर्थीयेनैव सिद्धे वचनमणो निवृत्त्यर्थम् । १२१३ द्वैपवैयाघ्रादञ् ।
I
ज्ञाप्येते । तथा च श्रवामदेव्यमित्यत्रायं स्वरो न भवति । एतत्संग्राहकं भाष्यस्यं श्लोकं पठति-सिद्धे यस्येत्यादि । अत्र पूर्वार्धमपिपरम् । 'यस्य -' इति लोपेन सिद्धे ययतौ किमर्थं डितौ कृतावित्यर्थः । ग्रहणमिति । वामदेव्यशब्दस्य नञ्स्वरे नाश्र - यस्वरविधौ अतदर्थे ‘ययतोश्चातदर्थे' इति सूत्रे अनयोर्व्यड्डयोग्रहणं मा भूदित्येतदर्थं डित्करणमित्यर्थः। परिवृतो रथः । तेनेत्यनुवर्तते । तेन परिवृतो रथ इत्यर्थे तृतीयान्तादणादयः स्युरित्यर्थः । ननु छात्रैः परिवृतो रथ इत्यत्रापि स्यादित्यत आहसमन्ताद्वेष्टितः परिवृत इत्युच्यत इति । रथस्य समन्तादाच्छादनार्थं यद्वस्त्रादिकं रथावयवभूतं तद्वाचकादेवेत्याशयः, एकान्तग्रहणमिति वार्तिकात्। पाण्डुकम्बलादिनिः । 'तेन' इति परिवृतो रथ इति चानुवर्तते । इनिप्रत्यये नकारादिकार उच्चारणार्थः । ननु ‘अत इनिठनौ' इति मत्वर्थीयेन इनैव सिद्धे किमर्थमिदमित्यत आह-- अणो निवृत्त्यर्थमिति । द्वैपवैयाघ्रादक्ष । 'तेन' इति परिवृतो रथ इति इह ‘गोत्रचरणाद् वुञ्' इति वुञ् । वामदेवात् । ग्रहणं मातदर्थ इत्यादि । श्रुतदर्थे ‘ययतोश्चातदर्थे' इति विहिते नञ्स्वरे नञाश्रितखरे ड्यड्डयतोर्ग्रहणं मा भूदित्यर्थः । ‘ययतोश्च-' इति सूत्रेण विधीयमानं नञः परस्य यत्पदन्तस्योत्तरपदस्यान्तोदात्तत्वं वामदेव्यशब्दे मा भूत् । किंतु — अव्ययपूर्वपदस्वर एव यथा स्यादित्येतदर्थं डित्करणमिति फलितोऽर्थः । न च कृतेऽपि डित्त्वे 'ययतो :-' इत्यस्य प्रवृत्तिः कुतो नेति शङ्कयम् । 'निरनुबन्धकग्रहणे न सानुबन्धकस्य' 'तदनुबन्धकग्रहणे नातदनुबन्धकस्य' इति परिभाषयोः सत्त्वात् । इमे च परिभाषे इहैव डित्त्वेन ज्ञाप्येते । तत्राद्यायाः प्रयोजनं 'पूरणगुण-' इति सूत्रे तव्यग्रहणे तव्यतोऽग्रहणम् । द्वितीयस्यास्तु अङ्ग्रहणे चङोऽग्रहणम् । श्वयतेरः' अङि परे इति शेषः । श्रश्वत् । चङि परे तु न, अशिश्वियत् । परिवृतो । तृतीयान्तात्परिवृत इत्यर्थेऽणादयः स्युर्यः परिवृतः स चेद्रथो भवति । रथाच्छादनार्थं यद्वत्रकम्बलादिकं तत एव सर्ववेष्टनं भवति, न तु च्छ्त्रादिभ्य इत्याशयेनाह – समन्ताद्वेष्टित इति । परिः सर्वतोभावे