________________
३४६ ]
सिद्धान्तकौमुदी। तद्धितेषु चातुरर्थिकरात्रिः । १२०८ दृष्टं साम । (४-२-७ ) तेनेत्येव । वसिष्ठेन दृष्टं वासिष्ठं साम । 'अस्मिन्नर्थेऽण डिद्वा वक्तव्यः' (वा २६६०)। उशनसा दृष्टमौशनम्, प्रौशनसम् । १२०६ कलेढक् । (४-२-८) (वा २६८६) । कलिना दृष्टं कालेयं साम । १२१० वामदेवाडुयडयो। (४-२-६ ) वामदेवेन दृष्टं साम वामदेव्यम् । मुहूर्तविशेषो ज्यौतिषे प्रसिद्धः । द्वन्द्वाच्छः । तिष्यपुनर्वसवीयमहरिति । तिष्यश्च पुनर्वसू च तिष्यपुनर्वसू, ताभ्यां युक्तमहरिति विग्रहः । छस्य ईयादेशे ओर्गुणः। राधानुराधीया रात्रिरिति । राधेति विशाखानक्षत्रमुच्यते। राधा च अनुराधाश्च राधानुराधाः, तयुक्ता रात्रिरित्यर्थः। दृष्टं साम । तेनेत्यवेति । अनुवर्तत एवेत्यर्थः। तेन दृष्टं सामेत्यर्थे तृतीयान्तादणादयः स्युरित्यर्थः । अस्मिन्नर्थ इति । 'दृष्टं साम' इत्यर्थे यः अण् स डिद्वेत्यर्थः । औशनमिति। अणि टिलोपपक्षे रूपम् । कलेढक् । वामदेवाड्यड्डयौ । वामदेव्यमिति । डित्त्वाहिलोपः, तित्वं स्वरार्थम् । ननु 'यस्येति च' इति लोपेन सिद्धे किमर्थमिह डित्करणमिति चेत्, सत्यम्-ययतोरेव विधौ ‘ययतोधातदर्थे' इति नञः परस्य ययदन्तस्यान्तोदात्तस्वरविधौ अनयोग्रहणं स्यात् , तदभावार्थ' डित्करणम् । डित्करणे सति तु स्वरविधावनयोन ग्रहणम् , 'निरनुबन्धकग्रहणे सति न सानुबन्धकस्य ग्रहणम्' इति परिभाषया 'तदनुबन्धकग्रहणे सति नातदनुबन्धकस्य' इति परिभाषया च तन्निवृत्तिर्भवति । एते तु परिभाषे इहैव विशेषे उदाहरणमाह-तिष्येत्यादि । अविशेषे तूदाहर्तव्यम् ‘अद्य राधानुराधीयम्' इति । न चात्र 'लुबविशेष' इति प्रण इव छस्यापि लुप्स्यादिति वाच्यम् । मध्येऽपवादन्यायरीत्या पूर्वोपस्थितस्याण एव तत्प्रवृत्तेः। यत्तु 'लुपं परत्वाद्बाधते' इति वृत्तिकृतोक्तम् । तन्न । द्वयोर्युगपत्प्राप्त्यभावात् । दृष्टं साम । तृतीयान्ताद् दृष्टमित्यर्थेऽणादयः स्युर्यदृष्टं तच्चेत्साम । अस्मिन्नर्थ इति । तथा च श्लोकवार्तिकम्---‘दृष्टे सामनि जाते वाप्यण डिद् द्विर्वा विधीयते। तीयादीकक् न विद्याया गोत्रादङ्कवदिष्यते।' इति जातेऽर्थे यो द्विरण स च वा डिदित्यन्वयः। शतभिषजि जातः शताभिषः, शातभिषजः । इह हि 'प्राग्दीव्यतः-' इति प्राप्तोऽण कालाटूना बाधितः, स च 'सन्धिवेलादि-' सूत्रेण प्रतिप्रसूयते इत्ययं द्विरुक्तोऽण् । तीयादीति । तीयादीकक् स्वार्थे भवतीत्यर्थः । द्वैतीयकः, तार्तीयकः । न विद्याया इति । विद्यावाचकात्तीयान्तादीका न भवतीत्यर्थः । द्वितीया विद्या । गोत्रादकवदिति । गोत्रप्रत्ययान्तादके यः प्रत्ययः स दृष्टे सामन्यपि भवति । औपगवेन दृष्टमौपगवकम् ।
१ इदं वार्तिकमिति शेखरे ।