________________
प्रकरणम् २७] बालमनोरमा-तत्त्वबोधिनीसहिता। [३४५ गम्यते । अद्य पुष्यः । कथं तर्हि 'पुष्ययुक्ता पौर्णमासी पौषी' इति । 'विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः' (सू १२२५) इति निर्देशेन पौर्णमास्यामयं लुन्नेति ज्ञापितत्वात् । श्रवणशब्दात्तु अत एव लुब् युक्रवन्नावाभावश्च । अबाध. कान्यपि निपातनानि । श्रावणी । १२०६ संज्ञायां श्रवणाश्वत्थाभ्याम् । (४-२-५) विशेषार्थोऽयमारम्भः । श्रवणा रात्रिः । अश्वत्थो मुहूर्तः । संज्ञायां किम्-श्रावणी, श्राश्वत्थी। १२०७ द्वन्द्वाच्छः। (४-२-६) नक्षत्रद्वन्द्वाचुक्ने काले छः स्याद्विशेषे सत्यसति च । तिष्यपुनर्वसवीयमहः । राधानुराधीया नक्षत्रेण चन्द्रमा युज्यत इति स्थितिः । तस्य षष्टिदण्डस्य कालस्य अवान्तरविशेषः अहर्वा रात्रिर्वेति न गम्यते चेदित्यर्थः। अद्य पुष्य इति । अयेत्यव्ययम् अहोरात्रवाचि अधिकरणशक्तिप्रधानम् , इह तु अधिकरणशक्लिविनिर्मुक्तः अहोरात्रकालो विवक्षितः । तथा च अयमहोरात्रः पुष्ययुक्तचन्द्रमसा युक्त इत्यर्थः । अहर्वा रात्रिर्वेति विशेषानवगमादणो लुप् । कथं तीति। पौर्णमास्याः षष्टिदण्डात्मिकाया अवान्तर. विशेषानवगमादिह लुप् स्यादित्याक्षेपः। समाधत्ते-विभाषेति । फाल्गुनीकार्तिकीचैत्रीशब्दानां नक्षत्राण्विशिष्टानां पौर्णमास्यां प्रयोगदर्शनेन पौर्णमास्यां नक्षत्रयुक्तायां 'लुबविशेषे' इत्ययं लुब् नेति ज्ञापितत्वात् पौषी पौर्णमासीत्यत्र न लुबित्यर्थः । ननु तर्हि श्रवणयुक्तपौर्णमास्यां लुबभावात् कथं श्रवणेति निर्देश इत्यत आह-श्रवणशब्दात्त्वत एव लुबिति । श्रवणेति निपातनादेव पौर्णमास्यां लुबित्यर्थः । ननु 'कृत्तिका श्रवणः पुष्यः चित्रास्वात्योर्यदन्तरम् ।' इत्यादौ श्रवणशब्दस्य पुँल्लिङ्गत्वदर्श नेन तस्मादणो लुपि कृते 'लुपि युक्तवद्यक्तिवचने' इति पुंल्लिङ्गत्वावश्यंभावाच्छ्त्रणेति कथं स्त्रीलिङ्गतेत्यत आह-युक्तवद्भावाभावश्चेति । निपातनादिति शेषः । ननु तर्हि श्रावणीति नैव स्यादित्यत आह--अबाधकान्यपि निपातनानीति । इयं परिभाषा वृत्तौ स्थिता । सर्वादिसूत्रभाष्ये तु 'बाधकान्येव निपातनानि' इत्युक्तम् । संज्ञायाम । श्रवणाश्वत्थाभ्यां परस्य नक्षत्रप्रत्ययस्य लुप् स्यात्संज्ञायामित्यर्थः । ननु 'लुबविशेषे' इत्येव सिद्ध किमर्थमिदमित्यत आह--विशेषार्थोऽयमारम्भ इति । श्रवणा रात्रिरिति । श्रवणयुक्तचन्द्रमसा युक्ता रात्रिरित्यर्थः । 'विभाषा फाल्गुनीश्रवणा-' इति सूत्रे श्रवणेति निर्देशस्य सामान्यापक्षत्वाद् अपौर्णमास्यामपि युक्तवद्भावो नेति विज्ञायते । अतः श्रवणा रात्रिरिति सिद्धमिति प्रकृतसूत्रे भाष्ये स्पष्टम् । अश्वत्थो मुहूर्त इति । अश्वत्थो नाम अश्विनीनक्षत्रम् । तेन युक्तः अश्वत्थो प्रतीतावप्यवयवद्वयात्मकस्य विशेषस्य प्रतीतेरित्याशयेनाह - विशेषश्चेन्नेति । अद्य पुष्य इति । 'मूलेनावाहयेद्देवी श्रवणेन' इत्यप्युदाहरणं बोध्यम् । द्वन्द्वाच्छः ।