________________
३४४ ] सिद्धान्तकौमुदी। [तद्धितेषु चातुरर्थिकमुपसंख्यानम् ।' (वा २६७१)। शाकतिकः । कार्दमिकः । 'प्राभ्यामणपि' इति वृत्तिः । शाकलः । कार्दमः । 'नील्या अन्' (वा २६८०) नील्या रकं नीलम् । 'पीतास्कन्' (वा २६८१)। पीतकम् । 'हरिद्रामहारजनाभ्यामम्' (वा २६८२)। हारिद्रम् । माहारजनम् । १२०४ नक्षत्रेण युक्तः कालः। (४-२-३) पुष्येण युक्तं पौषमहः । पौषी रात्रिः । १२०५ लबविशेषे। (४-२-४) पूर्वेण विहितस्य लुप्स्यात् षष्टिदण्डात्मककालस्यावान्तरविशेषश्चेन्न इति । पट इति शेषः । लाक्षया रक्त इति विग्रहः । रौचनिक इति । रोचनया रक्त इति विग्रहः । शाकलिक इति। शकलं रागद्रव्यविशेषः । वृत्तिरिति । भाष्ये तु नैतद् दृष्टम् । नील्या अनिति । वक्तव्य इति शेषः । अणोऽपवादः। नीली ओषधिविशेषः । 'पीतात्कन्' अणोऽपवादः । पीतं हरितालकादि द्रव्यम् । हारिद्रामहेति । अणोऽपवादः । स्वरे विशेषः । हरिद्रा प्रसिद्धा । महारजनं नाम रागद्रव्यविशेषः । इति रक्ताधिकारः ।
नक्षत्रेण । अस्मिन्नर्थे प्रथमोच्चारिताद् नक्षत्रवाचकाच्छब्दात् प्राग्दीव्यतीयाः प्रत्यया यथायथं स्युरित्यर्थः । नक्षत्रयुक्तश्चन्द्रमाः नक्षत्रशब्दन विवक्षितः । पुष्येण युक्तमिति । पुष्ययुक्तचन्द्रमसा युक्तमित्यर्थः । पौषम् अहरिति । पुण्यशब्दादणि 'तिष्यपुष्ययोर्नक्षत्राणि यलोपः' इति यलोपः। पौषी रात्रिति । पुष्ययुक्तचन्द्रमसा युक्त्यर्थः । अणि यलोपेः 'टिड्ढ-' इति ऊँप् । नक्षत्रेणेति किम् ? चन्द्रेण युक्ता रात्रिः । कालः किम् ? पुष्येण युक्तश्चन्द्रमाः । लुबविशेषे । षष्टिदण्डेति । षष्टिघटिकापरिच्छिन्ने काले एकैकस्मिन् एकैकेन कर्दमौ सूत्रे प्रक्षिप्तौ । 'शकलं त्वचि खण्डे च रागवस्तुनि वल्कले' इति विश्वः । वृत्तिकार इति । भाष्ये तु नैतद् दृष्टमिति भावः । नील्येति । नीली ओषधिविशेषः । अणपवादोऽयम् । नक्षत्रेण । नक्षत्रवाचकाः शब्दा वृत्तिविषये तयुक्तं चन्द्रमसमभिधानाः प्रत्ययं लभन्ते । पुष्यणेति । पुष्यसमीपस्थेन चन्द्रमसेत्यर्थः । एवं च पौषमहः, इत्यादिव्यवहारः सङ्गच्छते । सर्वेषामप्यहां पुष्ययोगसत्त्वेऽपि तत्समीपस्थचन्द्रमसा योगस्यासार्वत्रिकत्वात्। नक्षत्रेणेति किम् , चन्द्रेण युक्ता रात्रिः । कालः किम् , पुष्येण युक्तश्चन्द्रः । लुबविशेषे । पूर्वसूत्रस्यानुवर्तनादिह 'नक्षत्रेण युक्तस्य कालस्याविशेषे गम्ये' इत्यर्थः उपलभ्यते तदाह-षष्टिदण्डेति । 'अद्य पुष्यः' इत्युक्त्या 'न ह्यो, न श्वः' इति विशेषे गम्यमानेऽपि अहोरात्रात्मककालस्यावान्तरविशेषानवगमाल्लुब् भवत्येवेति भावः । अविशेषे' इत्यत्र प्रसज्य प्रतिबंधाश्रयणात् 'पोषोऽहोरात्रः' इत्यत्र लुब् न भवात, षष्टिदण्डसमुदायरूपकालस्य