________________
[३४३
प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। मनुष्य-' (सू ५२० ) इति लीए । दैवयश्या, दैवयशी इत्यादि ।
इत्यपत्याधिकारप्रकरणम् ।
अथ तद्धितेषु चातुरर्थिकप्रकरणम् । २७ ।
१२०२ तेन रक्तं रागात् । (४-२-१) रज्यतेऽनेनेति रागः, कषायेण रकं वस्त्रं काषायम् । माञ्जिष्ठम् । रागात् किम्-देवदत्तेन रकं वस्त्रम् । १२०३ लाक्षारोचनाटक । (४-२-२) लाविकः, रौचनिकः । 'शकलकर्दमाभ्यापक्ष इत्यर्थः । दैवयशीति । देवयज्ञस्यापत्यं स्त्रीति विग्रहे अत इअन्तात् ध्यविकल्पः । इत्यादीति । शुचिवृक्षस्यापत्यं स्त्री शौचिवृक्ष्या, शौचिवृक्षी । सत्यमुग्रः, निपातनान्मुम् । सत्यमुप्रस्यापत्यं स्त्री सात्यमुग्रया, सात्यमुग्री। काण्डेन विद्धः काण्डेविद्धः । निपातनादेत्त्वम् कारडेविद्धस्यापत्यं स्त्री काण्डेविड्या, काण्डेविद्धी। काण्ठेविद्धीति पाठान्तरम् । कण्ठे विद्धं वेधो यस्य, तस्यापत्यम् , काण्ठेविद्धिः ।
___ इत्यपत्याधिकारप्रकरणम् ।
अथ तद्धितचातुरर्थिकप्रकरण निरूप्यते । तेन रनं रागात् रज्यत इति । रज्यते वर्णान्तरं प्राप्यते अनेनेत्यर्थे रजेः करणे घनि कृते 'घमि च भावकरणयोः' इति नलोपे 'चजोः कुघिएण्यतोः' इति कुत्वे उपधावृद्धौ रागशब्द इत्यर्थः । तथा च रागशब्देन रञ्जनसाधनं द्रव्यमुक्तं भवति । तेनेति सामान्यनिर्देशः । तथाच तेन रक्तं वर्णान्तरं प्राप्तमित्यर्थे रागाद् रञ्जनद्रव्यवाचकात् तृतीयान्तादण् स्यादित्यर्थः, 'प्राग्दीव्यतोऽण्' इत्यधिकारात् । कषायेणेति । कषायो धातुविशेषो रञ्जनद्रव्यम् , तेन रक्तं वर्णान्तरं प्राप्तं कापायमित्यर्थः । माअिष्ठमिति । मञ्जिष्ठा नाम रजनद्रव्यविशेषः । लाक्षारोचनाद्वक् । अणोऽपवादः । लाक्षिक 'अणिोः -' इति नित्ये प्राप्ते विकल्पार्थमिदमित्येव व्याख्यातुमुचितमिति ।
इति तत्त्वबोधिन्यामपत्याधिकारप्रकरणम् ।
तेन रक्तम् । तृतीयान्तात्समर्थाद्यथाविहितं प्रत्ययाः स्युः । रज्यतेऽ. नेनेतीति । बाहुलकात्करणे घञ् । राग इति । रअकद्रव्यमित्यर्थः । शुक्लस्य वर्णान्तरापादनमिह रञ्जरर्थः । लाक्षारोचनात् । वृत्तिकृता तु वार्तिकस्थौ शकल
१ कण्ठविद्धमित्यारभ्य काण्ठेविद्धिरितियावत् पाठः क्वचित् पुस्तके नास्ति ।