________________
३४२ ]
सिद्धान्तकौमुदी ।
[तद्धितेष्वपत्याधिकार
I
1
१२०० क्रौड्यादिभ्यश्च । (४ - १ - ८० ) स्त्रियां व्यङ्प्रत्ययः स्यात् । श्रगुरूपो• त्तमार्थोऽनणिञन्तार्थश्चारम्भः । क्रौड्या । ब्याड्या | गौकेच्या । 'सूत युवत्याम् ' (ग सू ५५ ) सूत्या | 'भोज क्षस्त्रिये' (ग सू ५६ ) । भोज्या | १२०१ दैवयशिशौचिवृक्षिसात्यमुत्रिकाण्डेविद्धिभ्यो ऽन्यतरस्याम् । (४-१-८१) एभ्यश्चतुर्भ्यः ष्यङ्वा । श्रगोत्रार्थमिदं गोत्रेऽपि परत्वात्प्रवर्तते । पते 'इतो पौणिक्येति । पुणिकस्यापत्यं स्त्रीति विग्रहे अत इञन्तात् व्यङि चाप् । एवं भौणिक्या । मनुष्यनामत्वे तन्नामिकाणः ष्यङ् । क्रौड्यादिभ्यश्च । 'प्रत्ययविधिः’ इति भाष्योक्तं पक्षान्तरमाश्रित्याह - ष्यङ्प्रत्यय इति । पूर्वेण सिद्धे किमर्थमिदमित्यत आह — अगुरूपोत्तमार्थोऽनणिञन्तार्थश्वेति । कौड्येति । क्रोडस्यापत्यं स्त्रीति विग्रहे अत इञन्तात्यङ्, चाप् । इह 'त्र्यादीनामन्त्यमुत्तमम्' इत्युक्तेर्न गुरूपोत्तमत्वम् । मनुष्यनामत्वे त्वत् । गौकदयशब्दो गगादियजन्तः । तस्य अनणिजन्तत्वेऽपि व्यङ् । सूत युवत्यामिति । गणसूत्रमिदम् । सूतशब्दो युवत्यां ष्यङं लभत इत्यर्थः । सूत्येति । प्राप्तयौवनेत्यर्थः । जातौ तु सूतीत्येव । भोजक्षत्रिये । इदमपि गणसूत्रम् । दैवयशि । गोत्रार्थमिति । अनन्तरापत्यार्थमित्यर्थः । प्रवर्तत इति । विकल्प इति शेषः । पक्ष इति । ष्यङभावइति । तत इति । गोत्रावयवादित्यर्थः । क्रौड्यादिभ्यश्च । पञ्चमीनिर्देशात्प्रत्ययत्वमेवेहाश्रीयत इत्याह — ष्यङ् प्रत्यय इति । कौडि, व्याडि, श्रपिशलि, गौकक्ष्य इत्यादि । गौकक्ष्यशब्दो गर्गादियजन्तस्तदर्थमाह — अनणिञन्तार्थश्चेति । सूतेति । गणसूत्रम् । सूतशब्दो ष्यकं लभते युवत्यां वाच्यायामित्यर्थः । सूत्येति । व्यङि 'यङश्चान्' । अन्यत्र तु क्रियाशब्दाट्टाप् । सूतजातिवाचिनस्तु ङीष्, सूती । भोजेति । इदमपि गणसूत्रम् । जातिलक्षणङीषोऽपवादः व्यङ्, क्रियाशब्दात्तु टाबेव । भोजयतीति भोज्या । दैवयज्ञि | चतुर्भ्य इति । इन्तेभ्य इति शेषः । देवा यज्ञा यष्टव्या यस्य स देवयज्ञः । शुचिर्वृतो यस्य शुचिवृक्षः । सत्यमुग्रं यस्य सत्यमुग्रः । निपातनाद्विशेष्यस्य पूर्वनिपातो मुमागमश्च । काण्डेन विद्धः काण्डेविद्धः । 'कर्तृकरणे कृता-' इति समासः । निपातनात्काण्डशब्दस्य एकारः । पाठान्तरे कण्ठे विद्धमस्य, कण्ठे वा विद्धः कण्ठेविद्धः । 'श्रमूर्धमस्तकात् -' इत्यलुक् । एभ्यः सर्वेभ्योऽपत्ये 'अत इञ्' । गोत्रेऽपि । परत्वादिति । तथा चोभयत्र विभाषेति भावः । अत्रेदमवधेयम् -'अणिञोः -' इति सूत्रे यदि शास्त्रीयं गोत्रं गृह्यते तदा 'गोत्रार्थमिदम्' इत्यादिग्रन्थः स्वरसतः संगच्छते । यदि तु लौकिकं गोत्रमेव तत्र गृह्यते तदा
1
१ नास्तिक ।