________________
प्रकरणम् २६ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ३४१
योः किम् - वासिष्ठी | वैश्वामित्री । गुरूपोत्तमयोः किम्-औपगवी । जातिलक्षणो ङीष् । गोत्रे किम्-श्रहिच्छस्त्रे जाता श्रहिच्छत्री । ११६६ गोत्रावयवात् । (४-१-७६) गोत्रावयवा गोत्राभिमताः कुलाख्याः, ततो गोत्रे विहितयोरणिञोः स्त्रियां ष्यङादेशः स्यात् । श्रगुरूपोत्तमार्थ श्रारम्भः । पौणिक्या । भौणिक्या ।
वराहस्यापत्यं स्त्रीति विग्रहः, अत इञ्, अकारलोपः, वाराहिशब्दः । तत्र इकार उत्तमः | रेफादाकार उत्तमसमीपवर्ती गुरुः । इञ इकारस्य व्यङादेशः, चाविति भावः । वासिष्ठी । वैश्वामित्रीति । ऋष्ययान्तावतौ । श्रपगवीति । अणन्तत्वेऽपि गुरूपोत्तमत्वाभावान्न ष्यङ् । जातिलक्षण इति । 'गोत्रं च चरणैः सह' इति जातित्वम् । श्रहिच्छत्रीति । जातार्थे श्रणयम् नतु गोत्र इति न व्यङ् । नच व्यङ्प्रत्यय एव कुतो न विधीयत इति वाच्यम्, तथा सति उदमेवस्यापत्यं स्त्री इति विग्रह व्यङि चापि यदमेय्या, तस्या अपत्यं श्रदमेयेय इति न सिध्येत्, अस्यापत्यप्रत्ययत्वाभावेन यलोपाप्राप्तेरिति स्पष्टुं भाष्ये । गोत्रावयवात् । गोत्रावयवशब्द व्याचष्टे - गोत्रावयवा गोत्राभिमता इति । गोत्रं कुलम् अभिमतं प्रख्यातं याभिरिति विग्रहः । कुलप्रख्यातिकृत इत्यर्थः । कुलव्यपदेशकृत इति यावत् । तदाह--कुलाख्या इति । कुलम् आख्यायते व्यपदिश्यते श्राभिरिति कुलाख्याः । कुलनामानीत्यर्थः । पुणिकादिशब्दैर्हि कुलं व्यपदिश्यते - पुणिका वयम्, भुणिका वयमित्यादि । श्रवपूर्व काद् 'यु मिश्रणे' इति धातोरुपसर्गवशेन प्रख्यात्यर्थकात् पचाद्यचि श्रवयवशब्दः । कुलस्यावयवः प्रख्यापकशब्दः कुलावयव इति लभ्यत इति भावः । ननु पूर्वेौव सिद्धे किमर्थमिदमित्यत आह- गुरुपोत्तमार्थ इति । गोत्रादवयुतं मिश्रितम् अनन्तरापत्यं तदर्थमित्यपि भाष्ये स्पष्टम् । एवं च पूर्वसूत्रे अपत्याधिकारबहिर्भूतेऽपि पारिभाषिकमेव गोत्रं गृह्यत इति भाष्यस्वरसः । वाराह्येति । इञः ष्यङ् । णित्रोः किम् ऋतभागस्यापत्यमार्तभागी । बिदादित्वादञ् 'शार्ङ्गरवाद्यञः' इति ङीन् । 'टिड्ढा-' इत्यादिना ङीबिति तु वृत्तिकारः । 'अणिञोः -' इत्यत्र तु लौकिकं गोत्रं गृह्यते । 'गोत्रं च चरणैः-' इत्यत्र तु पारिभाषिकमेव गृह्यते । तेन जातित्वाभावान्डीनः प्राप्तिर्नास्तीति स्थितस्य गतिमाहुः । गोत्रावयवात् । अवयवशब्दोऽप्रधानवाची, श्रवयवश्वासौ गोत्रं चेति कर्मधारयः, निपातनाद् गोत्रशब्दस्य पूर्वनिपातः । गोत्राभिमता इति । गोत्रमित्येवमभिमताः गोत्रवाचित्वेन देशविशेषे प्रसिद्धाः, न तु प्रवराध्याये पठिता इत्यर्थः । प्रवराध्यायेsपाठाच्चाप्राधान्यम् । कुलाख्या इति । कुलमाख्यायते यैरिति कुलाख्याः पुणिकभुणिकमुखरप्रभृतयः तैर्हि कुलमाख्यायते 'पुणिका वयं गोत्रेण' 'भुणिका वयं गोत्रेण'