SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ३४०] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकारस्यात् । 'निर्दिश्यमानस्यादेशा भवन्ति' (१३) इत्यणिोरेव । षडाविती । 'यश्चा' (सू ५२८)। कुमुदगन्धेरपत्यं सी कौमुदगन्ध्या । वाराया । अनाप्रादेशः स्यादिति । स्थानषष्टीनिर्देशादादेशत्वलाभः । ननु अणिअन्तयोः ध्यादेशोऽयमनेकाल्त्वात् सर्वादेशः स्यादित्यत आह-निर्दिश्यमानस्येति । तथा च अणिोरेवायमादेश इति भावः । 'उिच्च' इत्यन्तादेश इति तु न युक्तम् , ङित्त्वस्य 'ध्यङः सम्प्रसारणम्-' इत्यादौ चरितार्थत्वात् । कुमुदगन्धेरिति । कुमुदगन्ध इव गन्धो यस्येति विग्रहः । 'सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्य उत्तरपदलोपश्च' इति बहुव्रीहिः, पूर्वखरडे उत्तरपदस्य गन्धशब्दस्य लोपश्च । 'उपमानाच्च' इति इत्त्वम् । कुमुदगन्धेरपत्यं स्त्रीति विग्रहे अण् । 'यस्येति च' इति इकारलोपः, पादिवृद्धिः, कौमुदगन्धशब्दः, तत्र धकारादणोऽकार उत्तमः । तत्समीपवर्ती गुरुः गकारादकारः, 'संयोगे गुरु' इत्युक्तेः । नचानुस्वारधकारव्यवहितत्वात्कथमुत्तमसमीपवर्तित्वं गकारादकारस्येति वाच्यम् , 'येन नाव्यवधानं तेन व्यवहितेऽपि' इति न्यायेन हला व्यवधान स्यादोषत्वात् । नाणि परे अव्यवहितो गुरुः क्वचिदस्ति । एवं च गुरूपोत्तमं प्रातिपदिकं कौमुदगन्धेत्यणन्तम् , तदवयवस्य अणः ध्यादेशे 'यङश्वाप्' इति चापि कौमुदगन्ध्याशब्द इत्यर्थः । इअन्तस्योदाहरति-वाराहोति । याज्ञदत्त्येत्यादीनामनन्तरापत्येऽपीष्यमाणस्वात् । अतएवानुपदं वक्ष्यति 'कुमुदगन्धेरपत्यं स्त्री कौमुदगन्ध्या' इति । इदं च कौस्तुभानुसारि व्याख्यानमत्रत्यमूलानुगुणमपि 'देवयज्ञि-' सूत्रस्थेन 'अगोत्रार्थमिदम्' इत्यादिमूलमन्थेन सह विरुध्यत इति तत्रैव स्फुटीभविष्यति । यद्यपि स्त्रीप्रत्ययाः प्रकृताः तथापि “पत्युनों यज्ञसंयोगे' इति नकारस्येव ष्यङ आदेशत्वमेवोचितम् 'अणिोः -' इति षष्ठीवरसादित्यभिप्रेत्याहष्यङादेशः स्यादिति । ष्यङः प्रत्ययत्वेऽपि लक्ष्यसिद्धिरप्रत्यूहेति मनोरमायां स्थितम् । नन्वयं 'ङिच्च' इत्यन्तादेशं बाधित्वा परत्वात्सर्वादेशः स्यात् । 'ङिच्च' इत्यस्यानन्यार्थङित्त्वेष्वनकादिषु चरितार्थत्वात् । ष्यडोऽनुबन्धस्य 'यङश्चाप्' इति विशेषणार्थतया सप्रयोजनत्वादित्याशङ्कयाह-निर्दिश्यमानस्येति । षडाविताविति । अनुबन्धद्वयकरणं व्यङ इव ध्यडोऽपि 'यङश्वाप्' इत्यत्र सामान्यग्रहणार्थम् । न च 'प्यङः संप्रसरणम्' इत्यत्र विशेषणार्थ तयोरुपयोगोऽस्ति । अन्यथा पाश्यापुत्रः पाश्यापतिरित्यत्र 'पाशादिभ्यो यः' इति यप्रत्ययेऽपि संप्रसारणप्रसङ्ग इति वाच्यम् । 'यङः संप्रसारणम्' इत्येकानुबन्धेनापि तद्वारणात् । लोलूयापतिरित्यत्र त्वकारप्रत्ययेन व्यवधानात्संप्रसारणाभावः । कौमुदगन्धीपुत्र इत्यत्र त्वेकादेशस्य पूर्वान्तत्वेन प्रहणानास्ति व्यवधानमिति संप्रसारणं सिध्यति । कौमुदगन्ध्येति । अणः व्यङ् ।
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy