________________
प्रकरणम् २६ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ३३६
1
स्यात् । यौधेयी । शौक्रेयी । ११६८ श्रणिनोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे । ( ४-१-७८) ज्यादीनामन्त्यमुत्तमम् तस्य समीपमुपोत्तमम् । गोत्रे craft विहितावनाषै तदन्तयोर्गुरूपोत्तमयोः प्रातिपदिकयोः स्त्रियां ष्यङादेशः
भावः । नन्वत्र ‘अतश्च' इति श्रञो लुकि सत्यपि 'टिड्ढ -' इति ङीपि, यौधेयी शौक्रेयीति सिद्धेरिह यौधेयादिग्रहणमनर्थकमित्यत श्राह - श्रतश्चेति लुक त्विति । उदात्तनिवृत्तीति । 'अनुदात्तस्य च यत्रोदात्तलोपः -' इत्येनन ङीबुदात्तः स्यात् । सिद्धान्ते त्वञन्तत्वाद् ङीनि श्रायुदात्तत्वमिति भावः । अणिज । त्र्यादीनामन्त्यमुत्तममिति । तथा भाष्यादिति भावः । तस्य समीपमुपोत्तममिति । सामीप्येऽव्ययीभाव इति भावः । गुरु उपोत्तमम् उत्तमसमीपवर्ति ययोरिति विग्रहः । प्रातिपदिकादित्यधिकृतं षष्ठीद्विवचनेन विपरिणम्यते । उपोत्तमगुरुवर्णक्रयोः प्रातिः पादेकयोरिति लभ्यते । 'अणियो:-' इत्यनेन प्रत्ययग्रहणपरिभाषया अणित्रन्तयोप्रहणम् । गोत्रे इत्येतद् ऋणिञोरन्वेति । ऋषेरविहितौ नाषै । इदमपि जोर्विशेषणम् । स्त्रियामित्यधिकृतम् । तदाह – गोत्रे यावणिञावित्यादिना । स्तद्राजा ः' इति वक्ष्यमाणत्वादनोऽस्य तद्राजत्वमस्तीति भावः । योपधत्वान् ङीषः प्राप्तिर्नेत्याशयेनाह — ङीपीति । उदात्तनिवृत्तिस्वर इति । 'अनुदात्तस्य च यत्रोदात्तलोपः' इत्यनेन ङीबुदात्तः स्यादित्यर्थः । सिद्धान्ते त्वञो लुगभावाद् ङीन्यायुदात्तत्वमिति ज्ञेयम् । स्यादेतत् । 'अतश्च -' इति सूत्रेण विधीयमानो लुक् चातुरर्थिकानामेव तद्राजानां भवतु, संनिधानात् न तु 'मादयस्तद्राजा:' इति पाचमिकानामपि तद्राजानामिति किमनेन यौधेयादिग्रहणेन । सत्यम्, 'व्याप्तिन्यायेन पाञ्चमिकस्यापीह ग्रहणम्' इति ज्ञापयितुं यौधेयादिग्रहणम् । तेन पार्श्वाद्यणः स्त्रियां लुक् सिध्यति । तथा हि पर्शुः क्षत्रियो जनपदेन समानशब्दः । तस्यापत्यं स्त्री 'द्यष्मगध-' इत्यय्, तस्य 'श्रतश्च' इति लुक् । पुनः पर्श्वादिलक्षणः स्वार्थिकोऽण् । तस्यापि लुकि 'ऊडुतः ' पर्शः । एवं रक्षसः क्षत्रियस्यापत्यं स्त्री रक्षाः । पूर्ववदण्द्वयस्यापि लुकि 'वसन्तस्य -' इति दीर्घः । उक्तं च वार्तिककृता – 'पर्श्वादिभ्यो लुग्वक्तव्यः । यौधेयादिप्रतिषेधो वा ज्ञापकः पार्श्वादिलुकः' इति । यौधेयीत्यादि । युधायाः शुकाया अपत्यं स्त्रीति विग्रहः । श्रणिजः । उत्तममिति । अव्युत्पन्नं प्रातिपदिकमिदम् । न तूच्छब्दात्तमप्, तेन किमेत्तिङव्ययघात् -' इत्याम् न शङ्कयः । गोत्रे याविति । 'अपत्याधिकारादन्यत्र लौकिकं गोत्रम्' इति नेह शास्त्रीयं गृह्यते । तथा च 'अनार्षयोः' इति पर्युदासादेव सिद्धे गोत्रग्रहणमिह त्यक्तुं शक्यम् । न चात्र गोत्रग्रहणसामर्थ्यात् शास्त्रीयमेव गोत्रं गृह्यत इति वाच्यम् । देवदत्त्या