SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२७५ दीव्यति-' (सू १५५० ) इत्यतः प्रागणधिक्रियते । १०७४ अश्वपत्यादिभ्यश्च । (४-१-८४) एभ्योऽएस्याप्राग्दीव्यतीयेष्वर्थेषु । वषयमाणस्य ण्यस्यापवादः । १०७५ तद्धितेष्वचामादेः । (७-२-११७) मिति णिति च सन्धिकार्यत्वमिति यावदिति । प्राग्दीव्यतोऽण् । 'तेन दीव्यति खनति जयति जितम्' इति सूत्रस्थदीव्यतिशब्दैकदेशस्यानुकरणमिह दीव्यच्छब्दः । तेन च तद्धटितं तत्सूत्रं लक्ष्यते । तदाह-तेन दीव्यतीत्यतः प्रागणधिक्रियत इति । तथा च तस्यापत्यमित्याद्युत्तरसूत्रेषु केवलमर्थनिर्देशपरेषु विधेयप्रत्ययविशेषा. संयुक्तेषु किं भवतीत्याकाङ्क्षायामणित्युपतिष्ठत इति लभ्यते । कस्माद्भवतीत्याका क्षायां 'समर्थात्प्रथमात्' इति प्रकृतिविशेषो लभ्यते । यत्र तु विधेयः प्रत्ययविशेषः श्रूयते तत्राणिति नोपतिष्ठते, अणित्यस्यौत्सर्गिकतया वैशेषिकेण इञादिना बाधात् । अश्वपत्यादिभ्यश्च । चकारात् 'प्राग्दीव्यतोऽण्' इत्यनुकृष्यते । तदाह-एभ्योऽरण स्यात् प्राग्दीव्यतीयेष्वर्थेष्विति । दीव्यतः प्राक् प्राग्दीव्यत् , 'अपपरि. बहिरञ्चवः पञ्चम्या' इत्यव्ययीभावः । 'झयः' इति टच तु न, तस्य पाक्षिकत्वात् । प्राग्दीव्यतो भवाः प्राग्दीव्यतीयाः, 'वृद्धाच्छः' । 'अव्ययात्त्यप्' इति तु न अव्ययीभावस्याव्ययत्वे 'लुङ्मुखस्वरोपचारः प्रयोजनम्' इति परिगणनात् । अत एव 'अव्ययानां भमात्रे टिलोपः' इत्यपि न भवति । ननु 'प्राग्दीव्यतोऽण् इत्येव सिद्ध किमर्थमिदं सूत्रमित्यत आह-वक्ष्यमाणस्येति । 'दित्यदित्यादित्यपत्युत्तरपदारण्यः' इति वक्ष्यमाणस्य पत्युत्तरपदत्वप्रयुक्तण्यप्रत्ययस्य बाधनार्थमित्यर्थः । फलं तु 'तस्यापत्यम्' इति सूत्रे मूल एव स्फुटीभविष्यति । इह ‘समर्थात्प्रथमावा' इति वक्तुं युक्तम् । महोत्सर्गानाह-प्राग्दीव्यत इत्यादिना । सूत्रे 'दीव्यत्' इत्येकदेशोऽनर्थकोऽप्यवधित्वेनोपात्तः 'प्राग्रीश्वरात्-' इतिवदित्येके । श्रन्ये त्वाः'दीव्यत्' इति शत्रन्तम् । तेन देवनकर्ता अर्थ एवावधिरिति । प्राग्दीव्यतीयेष्विति । दीव्यतः प्राक् प्राग्दीव्यत । 'अपपरिबहिरञ्चवः पञ्चम्या' इत्यव्ययीभाव इति प्राश्चः । 'प्राग्दीव्यतम्' इति तूचितम् , "झयः' इति टच्प्रवृत्तेरिति केचित् । तन्न, 'भयः' इति टच: पाक्षिकत्वात् । अन्यथा 'उपसमिधमुपसमित्' इति तत्सूत्रस्थमूलोदाहरणस्यासंगत्यापत्तेः । न चात्र टचोऽभावे 'अव्ययानां भमात्रे ' इति टिलोपे 'प्राग्दीव्यतीय' इति रूपं न स्यादिति शङ्कयम् । अव्ययीभावस्याव्ययत्वे प्रयोजनं 'लुङ्मुखस्वरोपचारः' ईति परिगणनात् । प्राग्दीव्यति भवः प्राग्दीव्यतीयः, 'वृद्धाच्छः' । त्यप् तु न शङ्कनीय एव, 'अमेहक्वतसित्रेभ्य एव' इति परिगणनात् । लुङ्मुखखर इत्यादिपरिगणनया अनव्ययत्वाच । वक्ष्यमाणस्येति । 'पत्युत्तरपदारण्यः' इति वक्ष्य
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy