________________
२७६ ] सिद्धान्तकौमुदी। [ तद्धितेष्वपत्याधिकारतद्धिते परेऽचामादेरचो वृद्धिः स्यात् । १०७६ किति च । (७-२-११८) किति तद्धिते च तथा । अश्वपतेरपत्याद्याश्वपतम् । गाणपतम् । 'गाणपत्यो मन्त्रः' इति तु प्रामादिकमेव । १०७७ दित्यदित्यादित्यपत्युत्तरपदाएण्यः। (४-१-८५) दित्यादिभ्यः पत्युत्तरपदाच प्राग्दीव्यतीयेष्वर्थेषु ण्यः स्यादणोऽपवादः । दैत्यः । अदितेरादित्यस्य वा आदित्यः । प्राजापत्यः । 'यमाञ्च' इति तद्धितेष्वचामादेः। 'अचो णिति' इत्यनुवर्तते । 'मृजेर्वृद्धिः' इत्यतो वृद्धिरिति च । अचामिति निर्धारणषष्ठी। तदाह-त्रितीति । किति च । तथेति । अचामादरचो वृद्धिरित्यर्थः । इदं सूत्रं प्रकृतानुपयुक्तमपि व्याख्यासौकर्याय इहोपन्यस्तम् । अपत्यादीति । आदिना समूहाद्यर्थसंग्रहः । आश्वपतमिति । अश्वपतेरणि आदिवृद्धौ ‘यस्येति च' इति इकारलोपः । गाणपतमिति । अश्वपत्यादिषु गणपतिशब्दः पठित इति भावः । गाणपत्य इति । गणपतिर्देवता अस्य मन्त्रस्येति विग्रहः । प्रामादिकमेवेति । प्रमादादायातमित्यर्थः गणपतिक्षेत्रपत्या. दीनामश्वपत्यादिगणे पाठस्य वृत्तौ दर्शनादिति भावः। दित्यदित्यादित्य । दित्यादिभ्य इति । दिति, अदिति, आदित्य एतेभ्य इत्यर्थः । पत्युत्तरपदादिति । पतिः उत्तरपदं यस्य तस्मादिति विग्रहः। प्राग्दीव्यीतीयेष्वर्थेविति । प्राग्दीव्यत इत्यनुवृत्तेरिति भावः । अणोऽपवाद इति । विशेषविहितत्वादिति भावः । दैत्य इति । दितेरपत्यमिति विग्रहः। दितेर्यप्रत्ययः। 'चुटू' इति णकार इत् , आदिवृद्धिः, 'यस्येति च' इति इकारलोपः। अदितेरादित्यस्य वेति । अपत्यादीति शेषः । आदित्य इति । जाताद्यर्थे ण्ये आदिवृद्धौ ‘यस्येति माणस्य । तद्धितेष्व । अचां मध्य आदिरजेवेति 'अचोऽष्णिाति' इति सूत्रादच इत्यनुवर्तत इत्याशयेन व्याचष्टे-अच इति । वृद्धिः स्यादिति । 'मृजेर्वृद्धिः' इत्यतोऽनुवर्तत इति भावः । किति च । 'वाहीकः' इत्याद्यर्थमपीदं सुगमव्याख्यानायात्रैवोपन्यस्तम् । 'अचामादेः' इति निर्दिष्टस्थानिकत्वादिक्परिभाषात्र नोपतिष्ठत इत्याशयेनोदाहरति-आश्वपतमित्यादि । प्रामादिकमेवेति। एतच्च हरदत्तग्रन्थे स्थितम् । यदि तु देवतार्थकारणन्ताचातुर्वर्यादेराकृतिगणत्वात् व्यअिति व्याख्यायते तदा निर्दुष्ट एवायं प्रयोगः । अश्वपनि गणपति राष्ट्रपति कुलपति गृहपति पशुपति क्षेत्रपतीत्यश्वपत्यादिः । दित्यदित्या । पतिशब्दस्योत्तरपदशब्देन बहुव्रीहिं कृत्वा पश्चाद् द्वन्द्वः कार्यः, न तु द्वन्द्वोत्तरं बहुव्रीहिरित्याहपत्युत्तरपदाच्चेति । पत्यन्तात्' इत्युच्यमाने बह्वच्पूर्वादपिस्यादित्युत्तरपदग्रहणं कृतम्। दैत्य इति । ननु दितैर्देवताद्यर्थे एयः सावकाशः, इतश्चानिञः' इत्यपत्ये ढक् दैतेय इत्यादौ