SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [२७७ काशिकायाम् । याम्यः । 'पृथिव्या भाजी' (वा २५५४ ) । पार्थिवा, पार्थिवी। 'देवाद्यनली' (वा २५५५)। दैव्यम् , दैवम् । 'बहिषष्टिलोपो यञ् च' (वा २५५६) च' इति लोप आदित्य इति रूपम् । श्रादित्यशब्दाद् ण्ये आदिवृद्धौ ‘यस्येति च' इति 'यणो मयः' इति पूर्वयकारस्य द्वित्वे सति 'हलो यमाम्-' इत्याद्ययकारस्य लोपे द्वियकारं रूपम् । द्वित्वाभावं लोपे चासति द्वियकारमेव । असति द्वित्वे यकारलोपे च सत्येकयकारं रूपम् । अनपत्यत्वाद् 'आपत्यस्य च-' इति यलोपो न । अदितरपत्ये रये आदित्यशब्दात्पुनरपत्ये गये 'आपत्यस्य च-' इति यलोपः। प्राजापत्य इति। पत्युत्तरपदात् प्रजापतिशब्दाद् ण्ये आदिवृद्धौ ‘यस्येति च' इति लोपः । दैतेया इति त्वसाध्वेव । साधुत्वश्रद्धा जाड्ये तु पृषोदरादित्वात् समाधेयम् । काशिकायामिति। भाष्ये त्विदं न दृश्यत इति भावः । याम्य इति । यमस्यापत्यादीति विग्रहः । पृथिव्या आाविति । अश्च, अञ् च वक्तव्यावित्यर्थः । पार्थिवेति । पृथिव्या अपत्यादीति विग्रहः । अप्रत्यये 'चुटू' इति अकार इत् , आदिवृद्धिः, 'यस्येति च' इति लोपः । स्त्रियामदन्तत्वाट्टाप् । पार्थिवीति । अनि 'टिड्ढाणञ्-' इति डीप् । अप्रत्ययस्यैव विधौ डीब न स्यात् । अम एव विधौ टाब् न स्यात् । तस्मादुभयविधिः । एतत्सूचनाय स्त्रीलिङ्गोदाहरणमिति बोध्यम् । देवादिति । देवशब्दाद् यञ् अञ् च प्रत्ययौ प्राग्दीव्यतीयेष्वर्थेषु वक्तव्यावित्यर्थः । दैव्यम् ,दैवमिति । देवस्यापत्यादीति विग्रहः । यञि अनि च श्रादिवृद्धौ ‘यस्येति च' इति लोपः । बहिष इति । सावकाशः, तथा च दितरपत्यमित्यत्रोभयप्रसङ्गे परत्वाल्लुक् स्यात् , मैवम् । 'ण्यादयोऽर्थविशेषलक्षणादणपवादात्पूर्वविप्रतिषिद्धम्' इति भाष्ये पूर्वविप्रतिषेधाश्रयणात् । अर्थविशेषे इति किम् , औष्ट्रपतम् । उष्ट्रपति म पत्रम् । 'तस्येदम्' 'पत्राध्वर्युपरिषदश्च' इत्यञ् । इह पूर्वविप्रतिषेधेन 'तस्येदम्' इत्यर्थे रयो न भवति, इदमित्यस्य सामान्यार्थत्वात् । कथं तर्हि 'दैतेयः' इति । अत्राहु:-'कृदिकारात्-' इति ङीषन्तात् 'नीभ्यो ढक्' । रायस्तु न भवति । लिङ्गविशिष्टपरिभाषाया अनित्यत्वात् । न च 'अन्तादिवच्च' इति पूर्वस्यान्तवद्भावेन न्यादेव राय इति भ्रमितव्यम् । दितिशब्दान्डीषि कृते 'यस्येति च' इति लोपेन सवर्णदीर्घाभावादिति । आदित्यशब्दारण्यप्रत्यये 'यस्य-' इति लोपे 'हलो यमां-' इति पाक्षिको यलोपः। न चाल्लोपस्य स्थानिवत्त्वम् , यलोपे 'न पदान्त-' इति तन्निषेधात् , 'पूर्वत्रासिद्धे न स्थानिवत्' इत्युक्तेश्च । काशिकायामिति । भाष्ये तु न दृष्टमिति भावः । अण्णन्तात् वार्थिकेन ष्या प्रयोगः सूपपादः । स्त्रियां डीए न भवति, षितां ङीषोऽनित्यत्वात् । आओः फलभेदज्ञापनाय स्त्रीलिङ्गमुदाहरतिपार्थिवा, पार्थिवीति । बहिष इति । टिलोपवचनम् 'अव्ययानां भमाने-'
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy