________________
२७८ ]
सिद्धान्तकौमुदी। [ तद्धितेष्वपत्याधिकारबाह्यः। 'ईकक्च' (वा २५५७) बाहीकः । 'स्थाम्नोऽकारः' (वा २५५६) अश्वत्थामः । पृषोदरादित्वात्सस्य तः । 'भवार्थे तु लुग्वाच्यः' ( वा २८८२ )। अश्वत्थामा । 'लोम्नोऽपत्येषु बहुष्वकारः-' (वा २५६०)। बाहादीमोऽपवादः । उडुलोमाः। उडुलोमान् । बहुषु किम्-ौडुलोभिः । 'सर्वत्र गोरजादिप्रसङ्गे यत्' । ( वा बहिस् इति सकारान्तमव्ययम् । तस्मात् प्राग्दीव्यतीयष्वर्थेषु यज्, प्रकृतेष्टिलोपश्चेति वक्तव्यमित्यर्थः । बाह्य इति । बहिर्भव इत्यादिविग्रहः । यजि टिलोपे आदिवृद्धिः । अव्ययानां भमात्रे टिलोप इत्यस्यानित्यत्वज्ञापनार्थमिह टिलोपविधानम् । तेन पाराद्भव पारातीय इत्यादि सिध्यति । ईकक चेति । बहिष ईकक् च स्यात् प्रकृतेष्टिलोपश्चति वक्तव्यमित्यर्थः । बाहीक इति । बहिष ईककि टिलोपे 'किति च' इत्यादिवृद्धिः । स्थाम्न इति । स्थामन्शब्दाद् अकारप्रत्ययः प्राग्दीव्यतीये. ध्वर्थेषु वाच्य इत्यर्थः । अणोऽपवादः । अश्वत्थाम इति । अश्वस्येव स्थामा स्थितिर्यस्येति विग्रहः । अश्वत्थाम्नोऽपत्यम् , तत्र जार इत्यादिविग्रहः । प्रत्ययविधित्वेऽपि भाष्य उदाहरणात् तदन्तविधिः । अश्वत्थामन्शब्दादकारप्रत्यये 'नस्तद्धिते' इति टिलोपः । अणि तु आदिवृद्धिः स्यात् । ननु उदः परत्वाभावात्कथमिह सकारस्य थकार इत्यत आह-पृषोदरादित्वादिति । भवार्थे तु लुग्वाच्य इति । अकारप्रत्ययस्येति शेषः । लोम्न इति । लोमन्शब्दाद्बहुषु अपत्येषु वाच्येषु अकारप्रत्ययो वक्तव्य इत्यर्थः । बाह्वादीन इति । बाह्रादित्वप्रयुक्तस्य इञोऽपवाद इत्यर्थः । उडुलोमा इति । उडूनि नक्षत्राणीव लोमानि यस्य स उडुलोमा,तस्यापत्यमिति विग्रहः । केवलस्य लोम्नः अपत्ययोगासंभवात्प्रत्ययविधित्वेऽपि तदन्तविधिः । अकारप्रत्यये सति 'नस्तद्धिते' इति टिलोपः । औडुलोमिरिति । उडुलोम्नोऽपत्यमिति विग्रहः । अत्रापत्यबहुत्वभावादकारप्रत्ययो न । किंतु बाह्वादित्वादिमि टिलोप इति भावः । सर्वत्र गोरिति । लोम्नोऽपत्येष्विति पूर्ववार्तिकादपत्यग्रहणानुवृत्तिनिवृत्त्यर्थं सर्वत्रग्रहणम् । अपत्ये तदन्येषु च प्राग्दीव्यतीयेष्वर्थेषु इत्यस्यानित्यतां ज्ञापयितुम् । तेन पारातीय इति सिद्धम् । अश्वत्थामा इति। भाष्योदाहरणात्तदन्तविधिः । न च बलवाचिनः स्थामन्शब्दस्पत्येन योगासम्भवाद्वचनारम्भसामर्थ्यात्तदन्तविधिः स्यादिति वाच्यम् , जाताद्यर्थे तत्सम्भवेन सामोपक्षयात् । अश्वस्येव स्थाम यस्येति बहुव्रीहिः । उडुलोमा इति । उडूनि नक्षत्राणीव लोमान्यस्येति विग्रहः । केवल स्यापत्येन योगासम्भवात्तदन्तविधिस्ततोऽकारष्टिलोपः। गोरिति । न केवलमपत्य एवायम् , किं तु प्राग्दीव्यतीयेषु सर्वेष्वर्थेष्विति ज्ञेयम् ।
१'तत्र' इति क्वचिन्नास्ति ।