SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२७६ २५६१ ) गव्यम् । अजादिप्रसङ्गे किम्-गोभ्यो हेतुभ्य भागतं गोरूप्यम् , गोमयम् । १०७८ उत्सादिभ्योऽञ् । (४-१-८६) औत्सः । अग्निकलिभ्यां ढग्वक्तव्यः' (वा २६८६ )। अग्रपत्यादि पानेयम् । कालेयम् । इत्यपत्यादिविकारार्थसाधारणाः प्रत्ययाः । गोशब्दादजादिप्रत्ययप्रसङ्गे सति यत्प्रत्ययो वाच्य इत्यर्थः । गव्यमिति । गवि भवं गोरागतमित्यादि विग्रहः । अणपवादो यत् । गोरूप्यम् , गोमयमिति । 'हेतुमनुध्येभ्योऽन्यतरस्याम्-' इति रूप्य इत्यर्थः । 'मयड्वैतयोः-' इति रूप्यमयटौ। हलादित्वान्नैतयोर्यत्प्रत्ययो बाधक इति भावः । उत्सादिभ्योऽञ् । प्राग्दीव्यतीयेष्वर्थेविति शेषः । अणिञाद्यपवादः । 'दृष्टं साम' इति सूत्रभाष्ये 'सर्वत्राग्निकलिभ्यां ढग्वक्तव्यः' इति वार्तिकं पठितम् । दृष्टं सामेत्यर्थे ततोऽन्येष्वप्यर्थेषु ढग्वक्तव्य इत्यर्थः । तत्र सर्वत्रेति त्यक्त्वा लाघवात्प्राग्दीव्यतीयेष्वेवेदं वार्तिकं पठति-अग्निकलिभ्यामिति । अपत्यादीति । अग्निर्देवता अस्य इत्यादिसंग्रहः । अाग्नेयम् । कालेयमिति । ढकि एयादेशे कित्त्वादादिवृद्धौ ‘यस्येति च' इति लोपः। इत्यपत्यादिविकारान्तार्थसाधारणाः प्रत्ययाः । गव्यमिति । गवि भवम्, गौर्देवता अस्य, गोरिदमित्यादिरर्थः । केचित्तु भाष्ये सर्वत्र ग्रहणात्प्राग्दीव्यतीयेभ्योऽन्यस्मिन्नर्थेऽप्ययं यत् । तेन गवा चरति गव्य इत्याद्यपि भवतीत्याहुः । गोरूप्यमित्यादि । 'हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः' 'मयट च' रूप्यमयटौ। उत्सादिभ्योऽञ् । अगस्तदपवादानामिञादीनां चायमपवादः । इह 'बष्कयासे-' इति गणसूत्रे, असे असमासे, पूर्वाचार्यसंज्ञेयम् । बष्कयस्यापत्यादि वाष्कयः । असे किम् , गौबष्कयिः । 'असे' इति निषेधाल्लिङ्गादिह तदन्तविधिः, तेन धेनुशब्दस्येह पाठादधेनूनां समूह आधेनवमिति सिद्धम् । नन्वेवं धैनुकं गौधेनुकमित्यत्राञ् प्रवर्तेत, 'अचित्तहस्तिधेनोः' इति सूत्रे धेनुशब्दग्रहणाद्धैनुकमिति सिद्धावपि गौधेनुकं न सिद्ध्येदिति चेत् । न । 'धेनुरनञ् इकमुत्पादयति' इति विशेषवचनस्य भाष्ये स्थितत्वात् । इकं ठकमित्यर्थः । अग्निकलिभ्यामिति । अयं भावः 'सास्य देवता' इत्यधिकारे 'अग्नेर्डक्' इति सूत्रम्, 'दृष्टं साम' इत्यधिकारे 'कलेढक्' इति वार्तिकं चापनीय प्राग्दीव्यतीयेष्विदमेव पठनीयम् । तेनामेरपत्यम् , अग्निना दृष्टं साम, अमेरिदम् , अग्नौ भवम् , अनेरागतमामेयमिति सिध्यति । तथा कलेरपत्यमित्याद्यर्थे कालेयमपि सिध्यतीति । एतेन 'यदकालयत्तत्कालेयस्य कालेयत्वम्' इति श्रुतावा
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy