________________
२७४ ]
सिद्धान्तकौमुदी। [ तद्धितेष्वपत्याधिकार
अथ तद्धिताधिकारप्रकरणम् । २६ ।
अथापत्यादिविकारान्तार्थसाधारणाः प्रत्ययाः ।
२०७२ समर्थानां प्रथमाद्वा । (४-१-८२) इदं पदत्रयमधिक्रियते । 'प्राग्दिश:-' (सू १६४७) इति यावत् । सामर्थ्य परिनिष्ठितत्वम् । कृतसन्धिकार्यस्वमिति यावत् । १०७३ प्राग्दीव्यतोऽण् ।। ४-१-८३) 'तेन
तदेवं समासप्रपञ्चं निरूप्य तद्धितप्रकरणमारभते । समर्थानां प्रथमाद्वा । विधेयस्यादर्शनान्नायं स्वतन्त्रविधिरिति मत्वाह-इदं पदत्रयमधिक्रियत इति । स्वरितत्वप्रतिज्ञाबलादिति भावः । अधिकारस्योत्तरावधिमाह -प्राग्दिश इति यावदिति । 'प्राग्दिशो विभक्तिः ' इति सूत्रम् उत्तरावधिरित्यर्थः। 'समर्थानाम्' इति निर्धारणषष्ठी । प्राथम्यं च 'तस्यापत्यम्' इत्यादितत्तत्सूत्रेए प्रथमोच्चारितत्वम् । समर्थानां मध्ये प्रथमोच्चारितादित्यर्थः । 'समर्थात्प्रथमाद्वा' इति सुवचम् । केचितु बहुवचनबलादनेकसमर्थसमवाय एवास्य प्रवृत्तिः । एवं च 'प्राग्दिशः-' इत्यादिषु स्वार्थिकप्रत्ययविधिषु नास्य प्रवृत्तिरिति लभ्यत इत्याहुः । ननु सुबन्तात्तद्धितोत्पत्ते. र्वक्ष्यमाणत्वेन तद्धितविधीनां पदविधितया ‘समर्थः पदविधि' इति परिभाषयैव एकार्थीभावरूपसामर्थ्यलाभादिह समर्थग्रहणं व्यर्थमित्यत आह--सामर्थ्य परि. निष्ठितत्वमिति । समर्थः पटुः शक्त इति पर्यायाः । शक्त वं च कार्योत्पादन. योग्यत्वम् । शब्दस्य च कार्यमर्थप्रतिपादनमेव । तच्छक्तत्वं च कृतेष्वेव संधिकार्येषु संभवति । तथा च कृतसन्धिकार्यत्वमेव सामर्थ्यमिह पर्यवस्यति । तदाह --कृत
अपवादसंगत्या तद्धितान्विवक्षुस्तदीयमधिकारसूत्रमाह-समर्थानामिति । 'अन्यतरस्यांग्रहणानुवृत्तेः समासोऽपि' इति वक्ष्यमाणमूलग्रन्थेन समासापवादत्वं सूचितम् । विधेयानिर्देशादुत्तरत्र प्रकृतिविशेषाकांक्षासत्त्वाच्च ना स्वतन्त्रो विधिरित्याह-अधिक्रियत इति । 'पदत्रयम्' इत्यनेन प्रत्येकं स्वरितत्वप्रतिज्ञा सूचिता। तत्प्रयोजनं तु कस्यचिन्निवृत्तावप्यपरस्यानिवृत्तिः, तथा च 'प्राग्दिशः-' इति सूत्रे'समर्थानां प्रथमात्' इति निवृत्तम् , 'वा' इति त्वनुवर्तत एव-इति वक्ष्यमाणमूलग्रन्थः संगच्छते ॥ प्राग्दिश इतीति । तत उत्तरेषां प्रत्ययानां स्वार्थिकत्वेन 'समर्थानाम्' 'प्रथमात्' इति पदयोः प्रयोजनं नेति भावः । ननु ‘समर्थः पदविधिः' इति परिभाषया गतार्थत्वात् ‘समर्थानाम्' इत्येतद् व्यर्थम् । न च पदविधित्वं नेति शङ्कयम् , 'घकालतनेषु-' इत्यलुम्विधानात् 'सुबन्तात्तद्धितोत्पत्तिः' इति सिद्धान्तस्य सकलसम्मतत्वादत आह-सामर्थ्यमिति । कृतसन्धिकार्यत्वमिति । अस्य