SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् २५] बालमनोरमा तत्त्वबोधिनीसहिता। [२७३ करपत्योश्चोरदेवतयोः सुट तलोपश्च' (वा ३७१३) तात्पूर्व चर्वेन दकारो बोध्यः । तबृहतोदकारतकारौ लुप्येते । करपत्योस्तु सुट् । चोरदेवतयोरिति समुदायो. पाधिः । तस्करः । बृहस्पतिः । 'प्रायस्य चित्तिचित्तयोः' (वा ३७१४) । प्रायश्चित्तिः, प्रायश्चित्तम् । वनस्पतिरित्यादि । प्राकृतिगणोऽयम् । इति समासाश्रयविधिप्रकरणम् । विग्रहः । पूर्ववट्टः । किष्किन्धेति । किं किमपि वानरसैन्यं धत्त इति किष्किन्धा । 'आतोऽनुपसर्गे कः'। टाप् , निपातनात् किमो द्वित्वम् , मलोपः, सुट्, षत्वं च । रूढशब्दा एते कथञ्चिद् व्युत्पाद्यन्ते । एषामवयवार्थो न विचारणीयः। तबृहतोरिति । पारस्करादिगणसूत्रमेतत् । तद्शब्दे तकारस्यान्त्यस्याभावादाह-तात्पूर्वमपि । तलोपश्चेत्यत्र तकारात्पूर्वमित्यर्थः । तत् चौयं करोतीति विग्रहः । 'कृमो हेतुताच्छील्ये-' इति टः । बृहस्पतिरिति । बृहती वाक्, तस्याः पतिरिति विग्रहः । कुक्कुटयादीनामण्डादिष्विति पुंवत्त्वम् , तलोपः, सुट् । 'वाग्घि बृहती तस्या एष पतिः' इति च्छन्दोगब्राह्मणम् । प्रायस्य चित्तिचित्तयोरिति । गणसूत्रमिदम् । प्रायस्य चित्तिः चित्तं वेति विग्रहः । 'प्रायः पापं विजानीयाचित्त तस्य विशोधनम् । ' इति स्मृतिः। वनस्पतिरिति । वनस्य पतिरिति विग्रहः प्राकृतिगणोऽयमिति । तेन शतात्पराणि परश्शतानीत्यादि सिद्धम् । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां __ बालमनोरमायां समासाश्रयविधिप्रकरणं समाप्तम् । कादेशः । पारस्कर इति । 'पारं करोति' इति विग्रहः । 'कृलो हेतुताच्छील्या-' इति टः । किष्किन्धेति । 'किमपि धत्ते' इति विग्रहे 'आतोऽनुपसर्गे कः' । टाप , निपातनात् किमो द्वित्वं पूर्वस्य मलोपः सुट् षत्वं च । “किं किं दधाति' इति विगृहृतां तु मते वीप्सायां द्वित्वं सिद्धम् । अन्यत्र तु निपातनादेव । वस्तुतस्तु रूढिशब्दा एते कथंचिद्व्युत्पाद्यन्त इत्यवयवार्थे नाग्रहः कार्यः । तबृहतोरिति । गणसूत्रमेतत् । तादिति । 'तलोपश्च' इत्यत्रेति शेषः । प्रायस्येति । गणसूत्रमेतदपि । 'प्रायः पापं विजानीयाच्चित्तं तस्य विशोधनम्' इति स्मृतिः। आकृतिगणोऽयमिति । तेन शतात्पराणि परश्शतानि कार्याणीत्यादि सिद्धम् । 'सुप्सुपा' इति वा 'पञ्चमी' इति योगविभागाद्वा समासः । राजदन्तादित्वाच्छतशब्दस्य परनिपातः, पारस्करादित्वात्सुट् । ___ इति तत्त्वबोधिन्यां समासाश्रयविधिप्रकरणम् । १ 'कुक्कुट्यादीनामण्डादिष्विति' इति क्वचिनास्ति ।
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy