________________
२७२ ]
सिद्धान्तकौमुदी। [समासाश्रयविधि१०६६ प्रतिष्कशश्च कशेः। (६-१-१५२) 'कश गतिशासनयोः' इत्यस्य प्रतिपूर्वस्य पचायचि सुट् निपात्यते षत्वं च । सहायः पुरोयायी वा प्रतिष्कश इत्युच्यते । कशेः किम्-प्रतिगतः कशां प्रतिकशोऽश्वः । यद्यपि कशेरेव कशा, तथापि कशेरिति धातोर्ग्रहणमुपसर्गस्य प्रतेर्ग्रहणार्थम् । तेन धावन्तरोपसर्गान । १०६७ प्रस्करवहरिश्चन्द्रावृषी । (६-१-१५३) हरिश्चन्द्रग्रहणममन्त्रार्थम् । ऋषी इति किम्-प्रकण्वो देशः, हरिचन्द्रो माणवकः । १०६८ मस्करमस्करिणौ वेणुपरिव्राजकयोः । (६-१-१५४) मकरशब्दोऽव्युत्पन्नः, तस्य सुडिनिश्च निपात्यते । वेणु इति किम्-मकरो ग्राहः, मकरी समुद्रः । १०६६ कास्तीराजस्तुन्दे नगरे । (६-१-१५५) ईषत्तीरमस्यास्तीति कास्तीरं नाम नगरम् । अजस्येव तुन्दमस्येति अजस्तुन्दं नाम नगरम् । नगरे किम्-कातीरम्, अजतुन्दम् । १०७० कारस्करो वृक्षः । (६-१-१५६) (ग १५३) कारं करोतीति कारस्करो वृक्षः । अन्यत्र कारकरः । केचित्तु कस्कादिष्विदं पठन्ति, न सूत्रेषु । १०७१ पारस्करप्रभृतीनि च संज्ञायाम् । (६-१-१५७) एतानि ससुटकानि निपात्यन्ते नानि । पारस्करः । किष्किन्धा । 'तबृहतोः प्रतिष्कशश्च कशेः। कशेरिति कश इत्यत्रान्वेति । तथा च कशधातोर्निष्पन्नस्य कशशब्दस्य प्रतेः परस्य सुट् स्यादित्यर्थः । कशेरेवेति । कशधातोरेव कशाशब्दो निष्पन्न इत्यर्थः । धात्वन्तरेति । प्रतिगतः कशां प्रतिकश इत्यत्र गमि प्रत्येव प्रतिरुपसर्गः, न तु कशिं प्रति, 'यक्रियायुक्ताः प्रादयः-' इति नियमादित्यर्थः । प्रस्करवहरिश्चन्द्रावृषी । अमन्त्रार्थमिति । मन्त्रे तु 'हरवाचन्द्रोत्तरपदे मन्त्रे' इति सूत्रेणैव सिद्धमिति भावः । तत्सूत्रं वैदिकप्रक्रियायां व्याख्यास्यते । मस्करमस्करिणी । यथासंख्यमन्वयः । मस्करिग्रहणात्परिव्राजक एव मस्करिशब्दः । अन्यत्र तु मकरीत्येवेत्याहुः । कास्तीराजस्तुन्दे । कास्तीरशब्दः अजस्तुन्दशब्दश्च नगरे निपात्येते इत्यर्थः । कारस्करो वृक्षः। कारं करोतीति विग्रहः । “कृञो हेतुताच्छील्ये-' इति टः । पारस्करप्रभृतीनि च । पारस्कर इति । पारं करोतीति बोध्यम् । तस्यापीति । विकिरशब्दस्यापीत्यर्थः । कशेरेव कशेति । कशधातोरेव कशाशब्दो निष्पन्न इत्यर्थः । धात्वन्तरेति । 'प्रतिकशः' इत्यत्र प्रतिर्गमेरुपसर्गो, न तु कशेः । 'यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव-' इति न्यायादिति भावः । अमन्त्रार्थमिति । मन्त्रे तु 'हस्खाचन्द्रोत्तरपदे मन्त्रे' इत्यनेनैव सिद्धयतीति भावः । मस्कर । मस्करशब्दादिनिना मत्वर्थीयेनेष्टसिद्धौ मस्करिग्रहणं 'परिव्राजक एवायं प्रयोगो यथा स्यात्' इत्येवमर्थमित्याहुः । कातीरमिति । 'ईषद इति कोः