________________
प्रकरणम् २५ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२७१ पनाय स्थाने सुट् निपात्यते । प्रास्पदम् । प्रतिष्ठायाम् इति किम्-श्रा पदाद् आपदम् । १०६२ आश्चर्यमनित्ये । (६-१-१४७) अद्भुते सुट् । आश्चर्य यदि स भुञ्जीत । अनित्ये किम्-प्राचयं कर्म शोभनम् । १०६३ वर्चस्केऽवस्करः। (६-१-१४८) कुत्सितं वर्गों वर्चस्कमन्नमलम् । तस्मिन् सुट् । अवकीर्यत इत्यवस्करः । वर्चस्के किम्-श्रवकरः । १०६४ अपस्करो रथाङ्गम् । (६-१-१४६) अपकरोऽन्यः । १०६५ विष्किरः शकुनौ वा। (६-१-१५०) पक्षे विकिरः । 'वावचनेनैव सुविकल्पे सिद्धे विकिरग्रहणं तस्यापि शकुनेरन्यत्र प्रयोगो मा भूत्' इति वृत्तिः । तन्न, भाष्यविरोधात् । प्रतिष्ठायाम् । अात्मेति । आत्मयापनं शरीरसंरक्षणम् , तदर्थ यत् स्थान तस्मिन् गम्ये सुडित्यर्थः। आपदादापदमिति । श्रा पदादिति विग्रहे अव्ययीभावे आपदमिति भवतीत्यर्थः । आपदापदमिति पाठे तु आपदमित्यस्य आपदित्यर्थः । आश्चर्यमनित्ये । अद्भते गम्ये श्रापर्वकस्य चरेः सुट् । 'चरेराकि चागुरौ' इति यत् । अनित्यग्रहणमपनीय अद्भत इति वक्तव्यमिति वार्तिकमभिप्रेत्याह-अद्भते सुडिति । तेन आर्य नीला द्यौः, आश्चर्यमन्तरिक्ष यदबन्धनानि नक्षत्राणि न पतन्तीत्यादिसंग्रहः । अनित्ये इत्यनेन कादाचित्कतया अद्भतं लक्ष्यत इत्युक्ते तु एतन्न सिध्येत् । वर्चस्केऽवस्करः । 'मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत् । गूथं पुरीषं वर्चस्कमस्त्री विश्राविशौ स्त्रियाम् ॥' इत्यमरः । अपस्करो। 'स्याद्रथाङ्गमपस्करः' इत्यमरः । 'चक्रं रथाङ्गम्' इति च । विष्किरः। विकिरतीति विकिरः । 'कृ विक्षेपे' 'इगुपधज्ञा-' इति कः । शकुनौ गम्ये सुड् वा, ‘परिनिविभ्यः-' इति षत्वम् । 'नगौकोवाजिविकिरविविष्किरपतत्त्रयः' इत्यमरः। वा वचनेनैवेति । वृत्तिग्रन्थे 'विष्किरः शकुनौ विकिरो वा' इति सूत्रपाठः। तत्र वाग्रहणादेव सुड्विकल्पे सिद्धे विकिरग्रहणं विष्किरः विकिर इति शकुनावेवेति नियमार्थम् । अतः शकुनेरन्यत्र उभयोरपि शब्दयोः प्रयोगो नास्तीति लभ्यत इत्यर्थः । भाष्ये हि 'विष्किरः शकुनौ वा' इति सूत्रं पठित्वा वाग्रहणेन सुविकल्पः, न तु शकुनेरन्यत्र विकिरशब्दस्य प्रयोगो नेति स्थितम् । अन्यत्रापि 'विकिरं वैश्वदेविकम्' इत्यत्र दर्शनादिति भावः। थमसेविताहणमित्याहुः । आत्मयापनायेति । कालक्षेपाय शरीरक्षेपणाय वेत्यर्थः ।
आश्चर्यमिति । श्राङः परस्य चरेः सुट् । 'चरेराङि चागुरौ' इति यत् । विष्किरः । 'कृ विक्षेपे' इत्यस्माद् 'इगुपध-' इत्यादिना कप्रत्यये सुडागमोऽनेन निपात्यते । षत्वं तु 'परिनिविम्यः-' इत्यनेन । विकिरग्रहणमिति । 'विष्किरः शकुनौ विकिरो वा' इति वृत्तिग्रन्थे पाठः, सूत्रपाठे तु विकिरग्रहणं नास्त्येवेति