________________
२७० ]
सिद्धान्तकौमुदी । [ समासाश्रयविधि
१०५८ कुस्तुम्बुरुणि जाति: । ( ६-१-१४३) अत्र सुयिनपात्यते । कुस्तुम्बुरुर्धान्यकम् । क्लीबत्वमतन्त्रम् । जातिः किम् - कुतुम्बुरुणि, कुत्सितानि तिन्दुकी फलानीत्यर्थः । १०५६ अपरस्पराः क्रियासातत्ये । ( ६-१-१४४ ) सुरिनपात्यते । अपरस्पराः सार्थ गच्छन्ति, सततमविच्छेदेन गच्छन्तीत्यर्थः । क्रिया इति किम् - अपरपरा गच्छन्ति, अपरे च परे च सकृदेव गच्छन्तीत्यर्थः । १०६० गोष्पदं सेवितासेवितप्रमाणेषु । (६-१-१४५) सुद् सस्य षत्वं च निपात्यते । गावः पद्यन्तेऽस्मिन्देशे स गोभिः सेवितो गोष्पदः । असेवितेअगोष्पदान्यरण्यानि । प्रमाणे - गोष्पदमात्रं क्षेत्रम् । सेवित इत्यादि क्रिम्गोः पदं गोपदम् । १०६१ आस्पदं प्रतिष्ठायाम् । (६-१-१४६) श्रात्मया
अयं निषेधः, न तु तद्धितपरकपदेनेत्यर्थः । आर्द्रगोमयेणेति । गोः पुरीषं गोमयम्, 'गोश्च पुरीषे' इति गोशब्दात् षष्ठ्यन्ताद् मयट् तद्धितः तद्धितान्तप्रातिपदिकावयवत्वात् सुपो लुक् आईं गोमयमिति कर्मधारयः । यद्यपि प्रत्ययलक्षणेन अन्तर्वर्तिनीं विभक्तिमाश्रित्य गोशब्दो मयटि पदम्, तथापि तस्य तद्धितपरकतया तेन व्यवधानेऽपि रेफात्परस्य णभ्वं भवत्येव, अस्मिन् प्रकरणे अकुप्वादनुव्यवायस्य प्रबाधकत्वात् । शुष्कगोमयेणेति । षात्परस्योदाहरणम् । भाष्ये तु 'पदान्तस्य' इति पूर्वसूत्रात्पदग्रहणानुवृत्तिमभिप्रेत्य पदे परतः पदेन व्यवाये णत्वं नेत्याश्रित्य वार्तिकमिदं प्रत्याख्यातम् । अथ ‘सुट् कात्पूर्वः' इत्यतः सुडित्यनुवृत्तौ कतिचित्सूत्राणि व्याख्यातुमुपक्रमते । कुस्तुम्बुरूणि । श्रत्रेति । जातिविशेषे वाच्ये कुस्तुम्बुरुशब्दः ससुट्को निपात्यत इत्यर्थः । कुस्तुम्बुरुर्धान्याकमिति । गुल्मविशेषे प्रसिद्धः। antaranतन्त्रमिति । श्रविवक्षितमित्यर्थः । वचनमप्यतन्त्रमिति बोध्यम् । कुतुम्बुरुणीति । धान्याकजातिवाचकत्वाभावाद न सुडिति भावः । तदाहकुत्सितानि तिन्दुकीफलानीत्यर्थ इति । तुम्बुरुशब्दस्य तिन्दुकवाचकत्वे कोशो मृग्यः । अपरस्पराः क्रियासातत्ये । स्पष्टम् । गोष्पदम् । असेविते गोष्पदशब्दस्य वृत्त्यसंभवाद् नपूर्वकमुदाहरति-गोष्पदानीति । गवां सञ्चरो यत्र नैव संभवति तत्रापि सुडिति भावः । गोष्पदमात्रं क्षेत्रमिति । क्षेत्रस्याल्पप्रमाणत्वमनेन ज्ञाप्यते । अतो गोष्पदात् क्षेत्रस्याधिक्येऽपि न क्षतिः । श्र/स्पदं निषेधः' इत्यर्थः । श्राद्रगोमयेणेति । इह गोशब्दः पदम् । 'उत्तरपदत्वे च--' इति निषेधोऽत्र न शङ्कयः, गोमयशब्दस्योत्तरपदत्वात् । गोशब्दस्य च 'खादिषु -' इति पदत्वात् । गोष्पदम् । असेविते गोष्पदशब्दस्य वृत्त्यसंभवान्नञ्पूर्ववमुदाहरति-- गोष्पदानीति । गवा संचारो यत्र नैव संभवति तत्रापि सुडागमा