________________
प्रकरणम् २५ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२६६ 'अतद्धित इति वाच्यम्' (वा ५०१५) । आगोमयेण । शुष्कगोमयेण । अङ्गशब्दस्य च प्रत्ययलक्षणेन अन्तर्तिी विभक्तिमाश्रित्य पदत्वं बोध्यम् । 'उत्तरपदे चापदादिविधौ प्रतिषेधः' इति निषेधस्तु नात्र प्रवर्तते, उत्तरखण्डस्य कार्यभाक्त्वे सत्येव तत्प्रवृत्तः । अत एव 'न लुमताजस्य' इत्यत्र परमवाचेत्येव तस्याः परिभाषाया उदाहरणमुक्तं भाष्ये । अत्र हि वाक्छब्दस्य उत्तरपदस्य कुत्वरूपकार्यभाक्त्वमस्तीति तस्य अन्तर्वर्तिनी विभक्विमाश्रित्य पदत्वाभावात् कुत्वं न भवति । अत एव च 'कुमति च' इति सूत्रे भाष्ये माषाणां कुम्भो माषकुम्भः, माषकुम्भस्य वापो माषकुम्भवापः, तेन माषकुम्भवापेनेत्यत्र ‘पदव्यवायेऽपि' इति निषेधप्रवृत्तये 'प्रातिपदिकान्त-'इति गत्वप्रवृत्तिरुपन्यस्ता सङ्गच्छते । न चैवं सति रम्यविणा इत्यत्र वि इत्युत्तरखण्डस्य कार्यभाक्त्वाभावाद् 'उत्तरपदत्वे चापदादिविधौ-' इति प्रत्ययलक्षणनिषेधस्याप्रवृत्तौ अन्तर्वतिविभक्त्याश्रयणेन पदत्वात् 'पदव्यवायेऽपि' इति णत्वनिषेधः स्यादिति वाच्यम् , पदे परे यत्पदं तेन व्यवाये णत्वं नेत्यर्थस्यैव भाष्यसंमतत्वात् । तच्च अनुपदमेव स्पष्टीभविष्यति। रम्यविणेत्यत्र च विशब्दस्यान्तर्तिविभक्त्या पदत्वेऽपि तस्य पदपरकत्वाभावान णत्वनिषेधः । एतेन पुनर्भूणामित्यत्रापि णत्वं निर्बाधम् । अतद्धित इति । अतद्धिते परे यत्पदं तेन व्यवधाने त्वात् । तस्माद् 'अङ्गानां योगोऽङ्गयोगश्चतुर्णामङ्गयोगः' इत्येव विग्रहीतव्यम् । न च 'चतुरङ्गेन योगः' इति विग्रहेऽप्याशब्द उत्तरपदं नेति प्रत्ययलक्षणप्रतिषेधो न प्रवर्तत इति शङ्कयम् , तस्य पूर्वसमासस्योत्तरपदत्वात् , 'उत्तरपदत्वे च-' इति प्रतिषेधवचनस्यापि 'उत्तरस्य समासचरमावयवस्य पदत्वे कर्तव्ये पदादिविधिभिन्ने प्रत्ययलक्षणं न प्रवर्तते' इत्यर्थाभ्युपगमाच्च । 'शाकपार्थिवादीनामुत्तरपदलोपः', 'प्रादिभ्यो धातुजस्य-' इत्यादौ तूत्तरपदशब्देन समासचरमावयवमानं गृह्यत इति तत्र प्रत्ययलक्षणप्रवृत्त्यभावेऽपि न क्षतिः । इह तु पदत्वलाभाय प्रत्ययलक्षणाप्रवृत्तिरपेक्षिता । एवं च 'माषकुम्भवापेन' इत्यत्रापि कुम्भस्य वापः कुम्भवापः । कुम्भशब्दः कुम्भपरिमितधान्ये भाक्तः । 'माषाणां कुम्भवापः' इति विग्रहीतव्यमिति नव्याः । केचित्तु'अपदादिविधौ' इत्यत्र 'पदान्तविधी' इत्यर्थ परिकल्प्य ‘पदव्यवायेऽपि' इत्यस्य पदान्तविधित्वाभावान्नास्त्यत्र प्रत्ययलक्षणनिषेध इत्याहुः । तदपरे न क्षमन्ते । तथा हि सति लाघवात् 'पदान्तविधौ' इत्येव ब्रयात् , न तु 'अपदादिविधौ' इति दिक् । किंचोत्तरपदत्वे इति वचनस्य पदान्तविधौ कर्तव्ये प्रतिषेध इत्यर्थाभ्युपगमे परमदण्डिनाविति 'ङमो ह्रखादचि-' इति सूत्रस्थमनोरमाग्रन्थेनैव विरोध इत्यलमियता। अतद्धित इति । 'व्यवधायकपदस्य तद्धितश्चेत्परो न भवति तदा