________________
२६८ ]
सिद्धान्तकौमुदी। [समासाश्रयविधिहरिकामिणौ । हरिकामाणि । हरिकामेण । १०५७ पदव्यवायेऽपि । (८-४-३८) पदेन व्यवधानेऽपि णत्वं न स्यात् । माषकुम्भवापेन । चतुरङ्गयोगेन। अन्तर्वर्तिनी विभक्तिमाश्रित्य 'सुप्तिङन्तम्-' इति पदत्वमभिमतम् , उत तृतीयाविभक्ती परतः 'स्वादिषु-' इति पदत्वम् ? नाद्यः, उत्तरपदत्वे चापदादिविधौ-' इति प्रत्ययलक्षणप्रतिषेधात् । न द्वितीयः, 'खादिषु-' इत्यनेन हि रम्यविशब्दस्यैव पदत्वं लभ्यते, न तु विशब्दस्य, तृतीयाविभक्तेः समुदायादेव विधानात् । अत एव पुनर्भूणामित्यत्र नामि भूशब्दमात्रस्य पदत्वाभावात् 'पदव्यवायेऽपि' इति निषेधाभावारणत्व. मिति प्राञ्चः । अत्र यद्वक्तव्यं तत् 'पदव्यवायेऽपि' इत्यत्रानुपदमेव वक्ष्यते । कुमति च । प्राग्वदिति । प्रातिपदिकान्तनुविभक्तिस्थस्य नस्य नित्यं णत्वं स्यादित्यर्थः । अनेकाजुत्तरपदार्थमिदम् । हरिकामिणाविति । 'बहुलमाभीक्ष्ण्ये' इति णिनिः । प्रातिपदिकान्तत्वाराणत्वम् । हरिकामाणीति । अजन्तलक्षणनुमो नित्यं णत्वम् । हरिकामेणेति । विभक्तिस्थस्योदाहरणम् । पदव्यवायेऽपि । पदेन व्यवधान इति । पदेनेत्यनन्तरं निमित्तकार्थिणोरिति शेषः । न स्यादिति । 'न भाभूपूकमिगमि-' इत्यतस्तदनुवृत्तरिति भावः । माषकुम्भवापेनेति । माषाणां कुम्भो माषकुम्भः, तस्य वाप इति षष्ठीसमासः । अत्र निमित्तकार्यिणोः षकारनकारयोः कुम्भपदेन व्यवधानाद् न णत्वम् । चतुरङ्गयोगेनेति । चत्वारि अङ्गानि रथगजतुरगपदातिरूपाणि यस्य तत् चतुरङ्गं सैन्यम् , तेन योग इति विग्रहः । अत्र निमित्तकार्यिणोरङ्गपदेन व्यवधानान णत्वम् । उभयत्रापि कुम्भशब्दस्य श्वासौ विश्चेति विग्रहः । तत 'आङो नास्त्रियाम्' । ननु अन्तर्वतिनी विभक्तिमाश्रित्य विशब्दस्य पदत्वात् 'पदव्यवायेऽपि' इति णत्वनिषेधः स्यात् । मैवम् । 'उत्तरपदत्वे चापदादिविधौ-' इति प्रत्ययलक्षणप्रतिषेधेन विशब्दस्य पदत्वाभावात् । 'स्वादिषु-' इत्यनेन तु रम्यविशब्दस्यैव पदत्वं न तु विशब्दस्य । यस्मात्स्वादिविधिस्तस्यैव पदत्वाभ्युपगमात् । एवं च पुनर्भूणामित्यत्र णत्वं निधिमेव, नामि परतो भूशब्दस्य पदत्वाभावात् । कुमति च । अनेकाजुत्तरपदार्थ आरम्भः । 'को' इत्येव तु न सूत्रितम् । 'यस्मिन्विधिः-' इति तदादिविधौ कवर्गाद्युत्तरपद एव हरिकामाणीत्यादावयं विधिः स्यात् न तु वस्त्रयुगेणेत्यादौ, तथा च मतुबन्तनिर्देश आवश्यक इत्याहकवर्गवतीति । पदेन व्यवधान इति । निमित्तनिमित्तिनोर्मध्ये पदे सति णत्वं नेत्यर्थः । माषकुम्भवापेनेति । माषकुम्भं वपतीति 'कर्मण्यण' उपपदसमासः । चतुरङ्गयोगेनेति । 'चत्वार्यङ्गान्यस्य, तेन योगः' इति मनोरमायां विगृहीतम् । तदयुक्तम् । 'उत्तरपदत्वे चापदादिविधौ' इति प्रत्ययलक्षणप्रतिषेधादङ्गशब्दस्यापद