________________
प्रकरणम् २५ ] बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ २६७
प्रेम्वनम् इत्यादौ तु नादित्वान । 'युवादेर्न' ( वा ४३६६ ) । रम्ययूना । परिपक्कानि । 'एकाजुत्तरपदे णः' ( सू ३०७ ) । नित्यम् इत्युक्रम् । वृत्रहणौ । हरिं मानयतीति क्विपि हरिमाणी । नुमि क्षीरपाणि । विभक्तौ-तीरपेण, रम्यविणा । १०५६ कुमति च । ( ८-४-१३) कवर्गवत्युत्तरपदे प्राग्वत् । अत उत्तरपदत्वस्य प्रातिपदिकविशेषणत्वे कथं नुंग्रहणं लिङ्गं स्यात् । तस्मादुत्तरपदविशेषणे भाष्यमेव शरणमिति भावः । ननु माषवापिणावित्यत्र वापिन् इति प्रातिपदिकस्य कथमुत्तरपदत्वम्, 'गतिकारकोपपदानां कृद्भिः सह समासवचनम् -' इति सुबुत्पत्तेः प्रागेव समास प्रवृत्तेरिति चेत्, न - उत्तरपदशब्दस्य समासचरमावयवे रूढत्वादित्यलम् । ननु 'इवि व्याप्तौ ' इदित्त्वान्नुम् । ल्युटि अनादेशः । प्रकृष्टमिन्वनमिति प्रादिसमासे नुमो नकारस्य णत्वविकल्पः स्यादित्यत आह-प्रेन्वनमिति । युवादेर्नेति । उक्तणत्वविकल्प इति शेषः । वार्तिकमिदम् । रम्ययूनेति । रम्यश्वासौ युवा चेति विग्रहः । प्रातिपदिकान्तनकारत्वात्प्राप्तिः । परिपक्वानीति । इह मो नकारस्य 'प्रातिपदिकान्त -' इति विकल्पं बाधित्वा 'कुमति च' इति नित्यं णत्वं प्राप्तम् । तदिह युवादित्वान्निषिध्यते । एकाजुत्तरपदे णः । अजन्तस्त्रीलिङ्गे पुनर्भूशब्दनिरूपणे व्याख्यातमपि प्रकरणानुरोधात् स्मर्यते नित्यमित्युक्तमिति । आरम्भसामर्थ्यान्नित्यमिदं णत्वमिति तत्रैवोक्तमित्यर्थः । हरिमाणीति । मनेरीयन्तात् 'क्विप् च' इति किपि 'गतिकारकोपपदानाम् -' इति सुबुत्पत्तेः प्राक् समासः । नान्तत्वाद् ङीप् । अत्र मान् इति प्रातिपदिकमुत्तरपदं तदन्तत्वाद् नकारस्य णत्वविकल्पे प्राप्ते नित्यं णत्वम् । नुमीति । उदाहियत इति शेषः । क्षीरपाणीति । कर्मण्युपपदे पा धातोः 'श्रतोऽनुपसर्गे कः' इति कः, 'आतो लोप इटि च' इत्याल्लोपः । क्षीरपशब्दाद् ‘जश्शसोशिश:', अजन्तलक्षणो नुम् दीर्घः । तस्य नित्यं णत्वम् । विभक्ताविति । उदाह्रियत इति शेषः । क्षीरपेणेति । विभक्तिस्थत्वान्नस्य नित्यं णत्वम् । विभक्लावुदाहरणान्तरमाह - रम्यविणेति । विः पक्षी, रम्यश्चासौ विश्व तेनेति विग्रहः । न चात्र 'पदव्यवायेऽपि' इति निषेधः शङ्कयः किमिह प्रत्ययलक्षणेन तदुक्तं ज्ञापकं विघटयति - किंचेति । परिपक्कानीति । 'कुमति च' इति नित्यं णत्वं प्राप्तम् । एकाजुत्तर । प्राग् व्याख्यातमपि प्रकरणानुरोधेन स्मार्यते । वृत्रहणाविति । वृत्रं हतवन्तौ 'ब्रह्मभ्रण -' इति क्विप् । हरिमाणीति । मनेर्यन्तात् ‘क्विप् च' इति क्विप् । ‘गतिकारकोपपदानाम् -' इत्यादिना सुबुत्पत्तेः प्राक् समासान्नकारान्तमुत्तरपदम्, नान्तत्वान्ङीप् । क्षीरपाणीति । पिबतेः कर्मण्युपपदे 'तोऽनुपसर्गे -' इति कः । 'आतो लोप इटि च' इत्यालोपः । रम्यविणेति । रम्य
"