________________
२६६ ]
सिद्धान्तकौमुदी। [समासाश्रयविधिनुमि-व्रीहिवापाणि । विभक्नौ-माषवापेण । पक्षे माषवापिनावित्यादि । 'उत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वम्' (वा ४६६०) नेह-गर्गाणां भगिनी गर्गभगिनी । अत एव मुंग्रहणं कृतम् । अङ्गस्य मुंविधानात्तद्भक्तो हि नुम् , न तूत्तरपदस्य । किं च 'प्रहिण्वन्' इत्यादौ हिवेर्नुमो णत्वार्थमपि नुग्रहणम् । नस्य णत्वम् । इत्यादीति । णत्वाभावपक्षे माषवापिनौ, माषवापानि, माषवापेन इत्युदाहायमिति भावः । ननु गर्गाणां भगिनी गर्गभगिनीत्यत्र उप्प्रत्ययप्रकृतिभूतभगिन्शब्दात्मकप्रातिपदिकान्तत्वाद् नकारस्य णत्वविकल्पः कुतो न स्यादित्यत आहउत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वमिति । पूर्वपदेन उत्तरपदमाक्षितम् , तच्च प्रातिपदिकस्यैव विशेषणम् , नतु तदन्तस्य, नापि नुविभक्त्योः , असंभ. वादिति भावः । नेहेति । गर्गाणां भगिनी गर्गभगिनीति षष्ठीसमासे भगिनीशब्द उत्तरपदम् , नतु तत्प्रातिपदिकम् , प्रत्ययान्तत्वात् । लिङ्गविशिष्टपरिभाषया प्रातिपदिकग्रहणेन भगिनीशब्दस्य ग्रहणेऽपि तदन्तम् ईकार एव, नतु नकारः, अतो न तस्येदं पाक्षिकं णत्वमिति भावः । प्रातिपदिकस्योत्तरपदत्वविशेषणं सूत्रकारस्य संमतमित्याहअत एवेति । प्रातिपदिकस्य उत्तरपदत्वविशेषणादेव सूत्रकारेण कृतं नुग्रहण. मर्थवत् , अन्यथा तदनर्थकमित्यर्थः । कुत इत्यत आह-अङ्गस्येति । 'नपुंसकस्य झलचः' इति नुविधौ अङ्गस्येत्यनुवृत्तम् । तथा च झलन्तस्याजन्तस्य चाङ्गस्य क्लीबस्य नुम् स्यात् सर्वनामस्थाने इत्यर्थो लभ्यते । माषवापाणीत्यत्र तु सर्वनामस्थानं प्रति माषवापशब्दोऽङ्गम् । तस्य माषवापशब्स्य विहितो नुमागमस्तदवयव एव भवति, न तु उत्तरपदभूतवापशब्दस्यैवावयवः। तथा च उत्तरपदभूतप्रातिपदिकान्तत्वाभावात् 'प्रातिपदिकान्त-' इत्यनेन णत्वविकल्पस्याप्राप्तौ नुग्रहणम्। प्रातिपदिकस्य उन्नरपदत्वविशेषणाभावे तु माषवापशब्दान्तावयवस्य नुमो माषवापेतिप्रातिपदिकान्तावयवत्वस्य सत्त्वात् 'प्रातिपदिकान्त-' इत्येव सिद्धे मुंग्रहणं व्यर्थं स्यादित्यर्थः । तदेवं प्रातिपदिकस्य उत्तरपदत्वविशेषणे नुग्रहणं लिङ्गमिति स्थितम् । वस्तुतस्तु नेदं लिङ्गमित्याहकिं च प्रहिण्वन्नित्यादौ हिवेर्नुमो णत्वार्थमपि नुग्रहणमिति । किं चेति विशेषप्रदर्शने । 'हिवि प्रीणने' भ्वादिः, इदित्त्वाद् नुम् , लटः शत्रादेशः । माषवापाणीत्यत्र नुमो नस्य प्रातिपदिकान्तत्वेऽपि प्रहिण्वन्शब्दे नुमो नस्य प्रातिपदिकान्तत्वाभावात् 'प्रातिपदिकान्त' इत्यनेन णत्वविकल्पस्याप्राप्तेस्तदर्थ नुग्रहणमावश्यकम् । वीहिवापाणीति । कर्मण्यण् । उत्तरपदं यदिति । इष्टानुरोधेन तथा व्याख्यायत इति भावः । गर्गभगिनीति । इह भगिनीशब्द उत्तरपदम् , न तु भगिन्शब्दः। अत्र च व्याख्याने नुम्ग्रहणमेव ज्ञापकमिति भावः । प्राचां मतमाह-अतएवेति ।