________________
प्रकरणम् २५ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२६५ तात्परस्य पानस्य नस्य णत्वं स्याद्देशे गम्ये । क्षीरं पानं येषां ते क्षीरपाणाः उशीनराः । सुरापाणाः प्राच्याः । पीयत इति पानम्, कर्मणि ल्युट् । १०५४ वा भावकरणयोः। (८-४-१०) पानस्य इत्येव । क्षीरपानम्, क्षीरपाणम् । 'गिरिनद्यादीनां वा' (वा ४६८६) गिरिनदी, गिरिणदी । चक्रनितम्बा, चक्रणितम्बा । १०५५ प्रातिपदिकान्तनुंविभक्तिषु च । (८-४-११) पूर्वपदस्थानिमित्तात्परस्य एषु स्थितस्य नस्य णो वा स्यात् । प्रातिपदिकान्ते-माषवापिणौ । पानमिति षष्ठयर्थे प्रथमेत्यभिप्रेत्याह –पानस्येति । उशीनरा इति । देशविशेषे बहुवचनान्तोऽयम् । ननु पानशन्दम्य भावल्युडन्तत्वे क्षीरम्पानमिति कथ सामानाधिकरण्यमित्यत आह-पीयत इति । वा भावकरणयोः। इत्येवेति । अनुवर्तत एवेत्यर्थः । भावे करणे च यः पानशब्दः तस्य उक्तविषये णो वा स्यादित्यर्थः । अदेशार्थ वचनम् । क्षीरपानम् , क्षीरपाणमिति । क्षीरस्य पानमिति विग्रहः । भावे करणे वा ल्युट् । पानक्रिया पानपात्रं वेत्यर्थः । गिरिनद्यादीनामिति । पूर्वपदस्थान्निमित्तात्परस्य उत्तरपदस्थस्य नस्य णो वेत्युपसंख्यानमित्यर्थः । गिरे दीति विग्रहः । चक्रनितम्बेति । चक्रमिव नितम्बो यस्याः सा इति विग्रहः । प्रातिपदिकान्त इति । पूर्वपदस्थादिति । 'पूर्वपदात्संज्ञायाम्-' इत्यतस्तदनुवृत्तेरिति भावः । एषु स्थितस्येति । प्रातिपदिकान्ते नुमि विभक्तौ च विद्यमानस्येत्यर्थः । वा स्यादिति । 'वा भावकरणयोः' इत्यतस्तदनुवृत्तेरिति भावः। प्रातिपदिकान्त इति । उदाहरणं वक्ष्यत इति शेषः। माषवापिणाविति । माषान् वपत इति विग्रहः । 'बहुलमाभीक्ष्ण्ये' इति जातावपि सुप्युपपदे णिनिः । उपपदसमासः । वापिन्शब्दस्य कृदन्तत्वेन प्रातिपदिकत्वात् तदन्तनस्य णत्वमिति भावः । नुमीति । उदाहियत इति शेषः । व्रीहिवापाणीति । कृषीवलकुलानीति शेषः । ब्रीहीन्वपन्ति इति विग्रहः । कर्मण्यण । व्रीहिवापशब्दान्नपुंसकाद् 'जश्शसोशिशः' 'नपुंसकस्य झलचः' इति नुमि ‘सर्वनामस्थाने च-' इति दीर्घः । नुमो नस्य णत्वमिति भावः । विभक्काविति । उदाहियत इति शेषः । माषवापेणेति । तृतीयाविभक्तिस्थत्वाव्यवस्थितविभाषाज्ञानादेव सिद्धम् । उशीनरा इति । इह उशीनरशब्दस्तद्देशवासिषु भाक्तः । कर्मणि ल्युडिति । 'कृत्यल्युटो बहुलम्' इत्यनेन । वा भाव । श्रादेशार्थ आरम्भ इत्यप्राप्तविभाषा। क्षीरपाणमिति । पीतिः पानम् , 'ल्युट च' इति नपुंसके भावे ल्युट । पीयते अनेनेति पानम् , करणे ल्युट । क्षीरस्य पानं क्षीरपाणम् । गिरिनद्यादीनां वेति । वक्तव्यमिति शेषः । संज्ञायां प्राप्ते असंज्ञायामप्राप्ते उभयत्र विभाषेल्याहुः । माषवापिणाविति । 'बहुलमाभीक्ष्ण्ये' इति णिनिः ।