________________
२६४ ]
सिद्धान्तकौमुदी। [समासाश्रयविधिदेवदारुवनम् । 'इरिकादिभ्यः प्रतिषेधो वक्तव्यः' (वा ४६८५)। इरिकावनम् । मिरिकावनम् । तिमिरोवनम् । १०५२ वाहनमाहितात् । (८-४-८) अारोप्य यदुयते तद्वाचिस्थानिमित्तात्परस्य वाहननकारस्य णत्वं स्यात् । इतुवाहणम् । माहितात् किम्-इन्द्रवाहनम् । इन्द्रस्वामिकं वाहनमित्यर्थः । वहतेयुटि वृद्धिरिहैव सूत्रे निपातनात् । १०५३ पानं देशे । (८-४-६) पूर्वपदस्थानिमिषवणमिति । यद्यपि यः पुष्पेविना फलति स एव उदुम्बरादिवनस्पतिः, 'वानस्पत्यः फलैः पुष्पात्तैरपुष्पादनस्पतिः' इत्युक्तेः। शिरीषवृक्षश्वायं पुष्पफलवानेव, न वनस्पतिः । तथापि वनस्पतिशब्देनात्र वृक्षसामान्यं विवक्षितम् । अत एव 'लुपि युक्तवयक्तिवचने' इति सूत्रे भाष्ये शिरीषवणमित्यत्र शिरीषे वनस्पतित्वं व्यवहृतमिति दिक् । द्यच्यज्भ्यामेवेति । परस्य वनस्य णत्वं वाच्यमिति शेषः। देवदारुवनमिति । प्रत्युदाहरणम् । इरिकादिभ्य इति । एभ्यः परस्य वनस्य णत्वप्रतिषेध इत्यर्थः । वाहनमाहितात् । वाहने आधीयते वहनाय यत् , नतु स्वयमेवारोढुं शक्नोति तदाहितम् । तदाह-पारोप्येति । निमित्तादिति । रेफषकारान्यतरस्मादित्यर्थः । वाहननकारस्येति । वाहनस्य यो नकारस्तस्येत्यर्थः । अनेन सूत्रे वाहनमिति षष्ठयर्थे प्रथमेति सूचितम् । इक्षुवाहणमिति । इक्षवो वाहनाय परैरारोप्यन्ते, नतु खयमेवारोढुं शक्नुवन्ति इति तेषामाहितत्वं बोध्यम् ।
आरोपितेतुयुक्तं शकटादि वाहनमिति यावत् । इन्द्रवाहनमिति । ऐरावतादाविन्द्रस्य स्वयमेवारोहणान्नाहितत्वमिति भावः । यदि कदाचिद् अन्न वाहने आरोप्यते तदा आहितत्वमिन्द्रस्याप्यस्त्येव । यदा इन्द्रः स्वयमेवारोहति वाहनं तदा प्रत्युदाहरणमिति मनसि निधायाह-इन्द्रस्वामिकमिति । ननु वहे: करणे ल्युटि कथमुपधादीर्घः, णित्प्रत्ययपरकत्वाभावादित्यत आह-वहेयुटीति । पानं देशे । मुदाहरति-शिरीषवणमिति । ननु ‘वानस्पत्यः फलैः पुष्पात्तैरपुष्पादनस्पतिः' इत्यमरकोशाद्यस्य पुष्पं विनैव फलप्रादुर्भावः स वनस्पतिः, स चोदुम्बरादिः । शिरीषस्तु न तथा, तस्य पुष्पफलोभयसत्त्वादतो णत्वमिह कथमिति चेत् । अत्राहुःवनस्पतिशब्देनात्र वृक्षमात्रमुपलक्ष्यते । अत्र च 'लुपि युक्तवत्-' इति सूत्रस्थं भाध्यं लिङ्गम् । तत्र हि व्यक्तिवचने किम् । शिरीषाणामदूरभवो ग्रामः शिरीषाः, तेषां वनं शिरीषवणमित्यत्र णत्वे कर्तव्ये वनस्पतित्वमप्यतिदिश्येत इत्युक्तम् । तच्च शिरीषाणां वनस्पतित्वे संगच्छते नान्यथेति दिक् । यच्च्यज्भ्यामेवेति । व्यवस्थितविभाषाश्रयणादिति भावः । ओषधित्वात्प्राप्ते प्रतिषेधमाह-इरिकादिभ्य इति । एतदपि
१'तिमिरावनम्' इति क्वचिन्नास्ति ।