________________
प्रकरणम् २५] बालमनोरमात्तत्त्वबोधिनीसहिता। [२६३ एकाचितीकः । द्विचितीकः । १०४८ नरे संज्ञायाम् । (६-३-१२६) विश्वानरः । १०४६ मित्रे चर्षों । (६-३-१३०) विश्वामित्रः । ऋषौ किम्विश्वमित्रो माणवकः । 'शुनो दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु दी? वाच्यः' (वा १०४६) श्वादन्त इत्यादि । १०५० प्रनिरन्तःशरेचुप्लक्षाम्रकायॆखदिरपीयूक्षाभ्योऽसंज्ञायामपि । (८-४-५) एम्यो वनस्य णत्वं स्यात् । प्रवणम् । कार्यवणम् । इह षात्परत्वाएणत्वम् । १०५१ विभाषौषधिवनस्पतिभ्यः। (-४-६) एभ्यो वनस्य एवं वा स्यात् । दूर्वावणम् , दूर्वावनम् । शिरीषवणम् , शिरीषवनम् । 'बघ्यज्भ्यामेव' (वा ४९८४)। नेहसंज्ञात्वमन्वेषणीयम् । चितेः कपि । दीर्घ इति शेषः । एकचितीक इति । अग्न्याख्यस्थण्डिलविशेष इति शेषः । एका चितिर्यस्येति विग्रहः । शैषिकः कप् । द्विचितीक इति । द्वे चिती यस्येति विग्रहः । नरे संज्ञायाम् । विश्वस्य दीर्घ इति शेषः । 'विश्वस्य वसुराटोः' इति पूर्वसूत्राद् विश्वस्येत्यनुवर्तते । मित्रे चर्षों। मित्रशब्दे परे विश्वस्य दीर्घः स्यात् । ऋषौ वाच्य इत्यर्थः । शुनो दन्तेति । श्वनशब्दस्य दन्तादिषु परतो दीर्घ इत्यर्थः । श्वादन्त इति । शुनो दन्त इति विग्रहः । श्वादंष्ट्रा, षष्ठीसमासः । दीर्घान्त एव दंष्ट्राशब्दो वार्तिके पठ्यत इति केचित् । ह्रस्वान्त इत्यन्ये । श्वादंष्ट्रः । बहुव्रीहिरयम्। श्वाकर्णः, श्वाकुन्दः, श्वावराहः, श्वापुच्छम् , श्वापदः । श्वपुच्छमवनामितमित्यसाध्वेव । प्रनिरन्तः । एभ्य इति । प्र, निर्, अन्तर, शर, इक्षु, प्लक्ष, आम्र, कार्य, खदिर, पीयूक्षा इत्येतेभ्य इत्यर्थः । वनस्येति । 'वनं पुरगा-' इत्यतस्तदनुवृत्तेरिति भावः । प्रवणमिति । प्रकृष्टं वनमिति विग्रहः । प्रादिसमासः। इहेति । काष्येवणमित्यत्र षकारात्परत्वेन णत्वम्, नतु रेफात् परत्वमादाय, अडादिभिन्नषकारेण व्यवधानादिति भावः । एतेन कार्येति तालव्यशकारमध्यपाठोऽप्रामाणिक इति सूचितम् , तथा सति निमित्ताभावाद् णत्वासंभवात् , अटकुप्वाभिनेन शकारेण व्यवहिततया रेफस्य तन्निमित्तत्वासंभवात् । नि. र्वणम् , अन्तर्वणम् , शरवणम् , इचवणम् , प्लक्षवणम् , अाम्रवणम् , खदिरवणम् , पीयूक्षावणम् । विभाषौषधि । वनस्य णत्वमिति । ओषधिवनस्पतिभ्यः परस्य वनस्य यो नकारस्तस्य णत्वं वेत्यर्थः । ओषधिभ्य उदाहरति-दविणमिति । 'ओषध्यः फलपाकान्ताः' इत्यमरः । अथ वनस्पतिभ्य उदाहरति-शिरीएकचितीक इति । 'शेषाद्विभाषा' इति कप् । 'दंष्ट्रा' इति वार्तिके दीर्घान्तः पठ्यते। केचित्तु ह्रस्वान्तं पठित्वा 'श्वादंष्ट्रः' इति बहुव्रीहौ दीर्घमाहुः, न तु तत्पुरुषे । इह षादिति । 'काय' इति तालव्यपाठस्त्वनार्ष इति भावः । वनस्पतिभ्यो वनस्य णत्व