________________
२६२]
सिद्धान्तकौमुदी। [समासाश्रयविधिमतौ बह्वचोऽनजिरादीनाम् । (६-३-११६) अमरावती। अनजिरादीनां किम्-अजिरवती । बह्वचः किम्-बीहिमती । संज्ञायाम् इत्येव, नेह-वलयवती। १०४२ शरादीनां च । (६-३-१२०) शरावती । १०४३ इको वहेऽपीलोः। (६-३-१२१) इगन्तस्य दीर्घः स्याद्वहे । ऋषीवहम् । कपीवहम् । इकः किम्पिण्डवहम् । अपीलोः किम्-पीलुवहम् । 'अपीरवादीनामिति वाच्यम्' (वा १००५) दारुवहम् । १०४४ उपसर्गस्य घञ्यमनुष्ये बहुलम् । (६-३-१२२) उपसर्गस्य बहुलं दीर्घः स्याद्धजन्ते परे, न तु मनुष्ये । परीपाकः, परिपाकः । अमनुष्ये किम्-निषादः । १०४५ इकः काशे । (६-३-१२३) इगन्तस्योपसर्गस्य दीर्घः स्यास्काशे । नीकाशः । इकः किम्प्रकाशः । १०४६ अष्टनः संज्ञायाम् । (६-३-१२५) उत्तरपदे दीर्घः । अष्टापदम् । संज्ञायां किम्-अष्टपुत्रः । १०४७ चितेः कपि । (६-३-१२७) मतौ । मतुप्प्रत्यये परे वह्वचो दीर्घः स्यात्संज्ञायाम् , न त्वजिरादीनामित्यर्थः । अमरावतीति । इन्द्रनगर्याः संज्ञेयम् । अमरा अस्यां सन्तीति विग्रहः । 'मादुपधायाश्च-' इति 'संज्ञायाम्' इति वा मस्य वः । अजिरवतीति । नदीविशेषस्य संज्ञेयम् । वलयवतीति । अनजिरादित्वेऽप्यसंज्ञात्वान्न दीर्घ इति भावः । शरादीनां च । मतो दीर्घः संज्ञायामिति शेषः । अबह्वच्कत्वात्पूर्वेण न प्राप्तिः । शरावतीति । शरा अस्यां सन्तीति विग्रहः । नदीविशेषस्य नाम । इको वहेऽपीलोः। अपीलोरिति च्छेदः । इगन्तस्येति । पूर्वपदस्येति शेषः । उपसर्गस्य । परीपाक इति । पचेर्भावे घञ् , उपधावृद्धिः । 'चजोः कु घिराण्यतोः' इति कुत्वम् । निषाद इति । पुलिन्दो नाम मनुष्यजातिविशेषः । निषीदत्यस्मिन् पापमिति निषादः । 'हलश्च' इत्यधिकरणे घञ् । दौवारिके प्रतीहारशब्दे दीर्घस्त्वप्रामाणिकः । यद्वा प्रतीहारो द्वारम् , तत्स्थत्वाद् मनुष्ये गौणः । इकः काशे । नीकाश इति । पचाद्यजन्तत्वात् पूर्वेण न प्राप्तिः । अष्टनः संज्ञायाम् । शेषपूरणेन सूत्रं व्याचष्टे-उत्तरपदे दीर्घ इति । अष्टापदमिति । शब्दग्राह्यास्तु 'अञ्जनागिरिः' इत्यादयः। किंशुलुकेति किम् , कृष्णगिरिः, रामगिरिः। कृषीवल इति । 'रजःकृष्यासुति-' इत्यादिना मत्वर्थ वलच् । अमरावतीति । 'मादुपधायाश्च-' इति, 'संज्ञायाम्' इति वा मतोर्मस्य वः। घमात्रस्योत्तरपदत्वासंभवादाह-घनन्त इति । निषाद इति । पुलिन्दो मनुष्यजातिः । 'निषीदत्यस्मिन् पापम्' इति निषादः, 'हलच' इत्यधिकरणे घञ् । कथं तर्हि दौवारिके प्रतीहारशब्दप्रयोग इति चेत् । अत्राहुः-प्रतीहारो द्वारम् । तात्स्यात्ताच्छब्द्यमिति ।