________________
प्रकणरम् २५] बालमनोरमा तत्त्वबोधिनीसहिता। [२६१ मिश्रकावणम् । सिध्रकावणम् । सारिकावणम् । कोटरावणम् । एभ्य एव इति किम्-असिपत्रवनम् । वनस्याग्रे अग्रेवणम् । राजदन्तादिषु निपातनात्सप्तम्या अलुक् । प्रातिपदिकार्थमाने प्रथमा । किंशुलुकागिरिः । १०४० वले । (६-३-११८ ) वलप्रत्यये परे दीर्घः स्यात्संज्ञायाम् । कृषीवलः । १०४१ मेव वनगिर्योरिति विहितः । एवं च एतेषामसंज्ञायां दीर्घाभावात् संज्ञायामेव वनं परगा-' इति णत्वविधिरिति पर्यवस्यति । ततश्च तेषु वनशब्दनकारस्य 'पूर्वपदात्संज्ञायामगः' इत्येव णत्वे सिद्धे पुनरपि कृतदीर्घस्य पुरगादिपञ्चकस्य णत्वविधौ निर्देशो नियमार्थः संपद्यत इत्यर्थः । अग्रेशब्दस्य त्विति । णत्वविधौ अग्रेशब्दस्य निर्देशस्तु अग्रेवणशब्दे अपूर्वणत्वविध्यर्थ एव, न तु नियमार्थः । अग्रेवणशब्दस्यासंज्ञात्वादिति भावः । न च पुरगावणशब्दे गकारव्यवधानात् 'पूर्वपदात्संज्ञायाम्-' इत्यस्य प्राप्तयसंभवाद् अत्र अपूर्वणत्वविध्यर्थमेव पुरगाग्रहणमिति वाच्यम्, अग इति हि पञ्चमी । गकारान्तात्पूर्वपदात्परस्य णत्वं नेति लभ्यते। पुरगाशब्दस्त्वयम् आकारान्त एव, न तु गकारान्त इति, तत्र अग इति निषेधाप्राप्तथा पूर्वपदात्संज्ञायाम्-' इत्येव सिद्धे, पुरगाग्रहणमपि नियमार्थमेवेति भावः। पुरगावणमित्यादयो नरकविशेषाणां संज्ञाः । असिपत्रवनमिति । नरकविशेषोऽयम् । अत्र संज्ञात्वेऽपि 'पूर्वपदात्संज्ञायाम्-' इति णत्वं न भवति, एभ्य एवेति नियमादिति भावः । अग्रेवणमिति । वनशब्दस्य षष्ठयन्तस्य अग्रेशब्देन सह षष्ठीसमास इति भावः। ननु तर्हि 'सुपो धातु-' इति सप्तम्या अपि लुक् स्यादित्यत आह-राजदन्तादिष्विति । अनेन वनशब्दस्य परनिपातोऽपि सूचितः । ननु सप्तम्यर्थप्राधान्यात्सप्तमी स्यादित्यत आह-प्रातिपदिकेति। सप्तम्यर्थस्य प्रातिपदिकेऽन्तर्भावादिति भावः । किंशुलुकादीनामुदाहरणमाहकिंशुलुकागिरिरिति । अञ्जनागिरिरित्यप्युदाहार्यम् । वले । कृषीवल इति । कृषिरस्यास्तीति विग्रहे 'रजःकृष्यासुति-' इत्यादिना वलच् । प्रवृत्तेरिति भावः । न च पुरगाग्रहणमपि विध्यर्थमेव, गकारव्यवधानेन 'पूर्वपदात्संज्ञायाम्' इत्यस्य प्राप्त्यभावादिति वाच्यम् । 'अगः' इत्यस्य पञ्चम्यन्तत्वं स्वीकृत्य 'गान्तात्पूर्वपदात्परस्य णत्वं न' इति व्याख्यानात् । पुरगाशब्दस्य त्वकारान्तत्वाद् 'अगः' इति निषेधस्याप्रवृत्तेः । अतएव 'अगः' इत्यस्य 'ऋगयनम्' इत्येकमेवोदाहरणमिति 'अणगयनादिभ्यः' इति निर्देशाश्रयेण तत्प्रत्याख्यातमाकरे । पुरगावणमित्यादि । नरकविशेषस्य संज्ञा । असिपत्रवनमिति । 'एभ्यो वनस्यैव' इति विपरीतनियमे तु णत्वमत्र दुर्वारमिति भावः । सप्तम्यर्थस्य प्रातिपदिकार्थे अन्तर्भावा. दाह-प्रथमेति । किंशुलुकादीनामुदाहरणमाह-किंशुलुकागिरिरिति । आदि