________________
२६० ]
सिद्धान्तकौमुदी। [समासाश्रयविधि. (सू १०३२) इत्यतो मण्डूकप्लुस्या विभाषा अनुवर्तते, सा च व्यवस्थिता, तेन गतिकारकयोरेव । नेह--पटुरुक्, तिग्मरुक् । १०३८ वनगिर्योः संज्ञायां कोटरकिंशुलुकादीनाम् । (६-३-११७) कोटरादीनां वने परे किंशुलुकादीनां गिरौ परे च दीर्घः स्यात्संज्ञायाम् । १०३६ वनं पुरगामिश्रकासिधकासारिकाकोटराग्रेभ्यः। (८-४-४) वनशब्दस्योत्तरपदस्य एभ्य एव णत्वं नान्येभ्यः । इह कोटरान्ताः पञ्च दीर्घविधौ कोटरादयो बोध्याः । तेषां कृतदी. र्घाणां णत्वविधौ निर्देशो नियमार्थः । अग्रेशब्दस्य तु विध्यर्थः । पुरगावणम् । विभाषेति । पटुरुगिति । पटु रोचत इति विग्रहः । उभयत्र कर्तरि क्विप् , पूर्वपदयोर्गतिकारकान्यतरत्वाभावान दीर्घः । व्यवस्थितविभाषाश्रयणे व्याख्यानमेव शरणम् । वनगिर्योः । वनगिर्योरिति सप्तमी। कोटरश्च किंशुलुकश्च कोटरकिंशुलुकौ, तावादी येषामिति विग्रहः । कोटरादीनां किंशुलुकादीनां चेति लभ्यते । यथासंख्यमन्वयः । तदाह-कोटरादीनामित्यादिना । पुरगावणमित्युदाहरणानि वक्ष्यन्ते। तत्र णत्वविधि दशेयति-वनं पुरगा। वनमिति षष्ठयर्थे प्रथमा इत्यभिप्रेत्याहवनशब्दस्येति । एभ्य इति । पुरगा, मिश्रका, सिध्रका, सारिका, कोटर, अग्रे इत्येतेभ्य एव परस्य उत्तरपदस्य वनशब्दस्य यो नकारस्तस्य णत्वमित्यन्वयः, 'रषाभ्याम्-' इत्यतो णो न इत्यनुवृत्तेः। सूत्रे अग्रे इति सप्तम्यन्तस्यानुकरणम् । नन्विह भिन्नपदत्वाद् 'अटकुप्वाङ्-' इति णत्वस्याप्राप्तेः अपूर्वविध्यर्थकत्वावश्यकत्वाद् एभ्य एवेति कथं नियमलाभ इत्यत आह-इह कोटरान्ता इति । इह णत्वविधौ उपात्ताः पुरगा मिश्रका सिध्रका सारिका कोटर इत्येवं पञ्च शब्दाः, त एव वनगिर्योरिति दीर्घविधौ कोटरादिशब्देन विवक्षिता इत्यर्थः । ततः किमित्यत आह-तेषामिति । णत्वविधौ तावत्पुरगादिशब्दाः पञ्च दीर्घान्ता एव निर्दिष्टाः । दीर्घस्तु तेषां संज्ञायाविभागाच्चकारस्यानुक्तसमुच्चयाद्वेत्यन्ये । सुषामादेराकृतिगणत्वादित्यपरे । परितनोति इति परीतत् । 'गमः क्वी' इत्यत्र ‘गमादीनामिति वाच्यम्' इत्युक्तनलोपः । वनं पुरगा। व्यत्ययेन षष्ठयर्थे प्रथमा इत्याह-वनशब्दस्येति । एभ्य एवेति । कृतदीर्घभ्यः पुरगादिभ्य एव परस्य णत्वमित्यर्थः। एभ्यो वनस्येव णत्वं नान्येषाम्' इति विपरीतनियमशङ्का तु न भवति, वनादन्यस्मिन्नुत्तरपदे पुरगादीनां दीर्घान्त त्वासंभवात् । नियमार्थ इति । अयं भावः-'पुरगामिश्रका-' इति दीर्घनिर्देशादसंज्ञायां दीर्घाभावेन संज्ञायामेव णत्वमिति फलितम् । एव च 'पूर्वपदात् संज्ञायाम्' इत्यनेनैव वनस्य णत्वे सिद्धे पुनरपि कृतदीर्घस्य पुरगादिपञ्चकस्य णत्वविधौ निर्देशो नियमार्थ एवेति । विध्यर्थ इति । असंज्ञात्वेन 'पूर्वपदात्संज्ञायाम्' इत्यस्या