________________
प्रकरणम् २५] बालमनोरमा-तत्त्वबोधिनीसहिता। [२५६ विष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रवस्वस्तिकस्य । (६-३-११५) कर्णशब्दे परे लक्षणवाचकस्य दीर्घः । द्विगुणाकर्णः । लक्षणस्य किम्- शोभनकर्णः । अविष्टादीनां किम्-विष्टकर्णः, अष्टकर्णः, पञ्चकर्णः, मणिकर्णः । भिन्नकर्णः, छिन्नकर्णः, छिद्रकर्णः, स्रवकर्णः, स्वस्तिककर्णः । १०३७ नहिवृतिवृषिव्यधिरुचिसहितनिषु कौ। (६-३-११६ ) क्विबन्तेषु एषु परेषु पूर्वपदस्य दीर्घः । उपानत् । नीवृत् । प्रावट । मर्मावित् । नीरुक् । अभीरुक् । ऋतीषट् । परीतत् । कौ इति किम्-परिणहनम् । 'विभाषा पुरुषे' इत्यादिसंग्रहः । संहितायाम् । सुगमम् । कर्णे लक्षणस्य । दीर्घविधिः, 'ठूलोपे-' इत्यतस्तदनुवृत्तेः । यत्पशूनां स्वामिविशेषसंबन्धज्ञानार्थं दात्रशूलचक्राद्याक रचिह्न क्रियते तल्लक्षणशब्देन विवक्षितम् । तेन लम्बकर्ण इत्यादौ नातिप्रसङ्गः । द्विगुणाकर्ण इति । द्विगुणरेखौ कौँ यस्येति विग्रहः । अष्टकर्ण इत्यादेरष्टसंख्यालिपिचिह्नकर्ण इत्यादिरर्थः । अष्टसंख्याकरेखाचिह्नकर्ण इति वा । नहिवृति । उपानदिति । 'णह बन्धने' 'णो नः' सम्पदादित्वात्कर्मणि विप् । उपनयत इत्युपानत् । पूर्वपदस्य दीर्घः । 'नहो धः' । निवर्तते इति नीवृत् । 'वृतु वर्तने' कर्तरि किप, दीर्घः । प्रवर्षतीति प्रावृट् । 'वृष सेचने' क्विप् , दीर्घः । मर्माणि विध्यतीति मर्मावित् । क्विप् , 'अहिज्या-' इति संप्रसारणम् , उपपदसमासः, सुब्लुक्, नलोपः, दीर्घः । निरोचत इति नीरुक्, 'रुच् दीप्तौ' क्विप, दीर्घः । ऋतिं सहत इति ऋतीषट् । 'सह मर्षणे' क्विप, दीर्घः । 'हो ढः', 'सात्पदाद्योः' इति षत्वनिषेधे प्राप्ते 'पूर्वपदात्-' इति षत्वमिति हरदत्तः, सुषामादित्वादित्यपरे। परितनोतीति परीतत् । 'तनु विस्तारे' क्विप्, 'गमः क्वौ' इत्यत्र गमादीनामित्युपसंख्यानाद् अनुनासिकलोपः, तुक्, दीर्घः । अथ पटुरुक्, तिग्मरुगित्यादौ दीर्घमाशङ्कयाहसंयोगान्तलोपोऽपि शिष्टोचारणानेति बोध्यम् । संहितायाम् । तेन 'द्विगुणाकर्णः' इत्यादौ अवग्रहे दीर्घो न भवतीति सूत्राशयमुत्प्रेक्षयन्ति-अधिकारोऽयमिति । तेन 'विद्मा हि त्वा' इत्यादौ पदकाले 'यचोतस्तिङः' इति दी| नेत्यादिप्रयोजनान्यूह्यानीति । नहिवृति । 'गह बन्धने', 'वृतु वर्तने', 'वृषु सेचने', 'व्यध ताडने', रुच दीप्तौ', 'षह मर्षणे', 'तनु विस्तारे'। क्विबन्तेष्विति । उत्तरपदेषु इति शेषः। तेन 'दिवसेषु रुक्' इत्यादौ नातिप्रसङ्गः । उपानदिति । संपदादित्वात्कर्मणि क्विम् । निवर्तते इति नीवृत् । प्रवर्षति इति प्राट् । मर्माणि विध्यति इति मर्मवित् । व्यधेः 'अहिज्या-' इति संप्रसारणम् । निरोचते इति नीरुक् । ऋतिं सहते ऋतीषट् । 'पूर्वपदात्-' इति षत्वमिति हरदत्तः । 'सहेः पृतनर्ताभ्यां च' इत्यत्र 'सहेः' इति योग