________________
२५८ ]
सिद्धान्तकौमुदी। [समासाश्रयविधितीरम् । उत्तरतारम् , उत्तरतीरम् । 'दुरो दाशनाशदमध्ये स्वमुत्तरपदादेः ष्टुत्वं च' (वा ४००१) दुःखेन दाश्यते दूडाशः । दुःखेन नाश्यते दूणाशः । दुःखेन दभ्यते दूडभः । खल त्रिभ्यः । दम्भेर्नलोपो निपात्यते । दुःखेन ध्यायतीति दूढयः । 'पातश्च-' (स २८१८) इति कः । ब्रुवन्तोऽस्यां सीदन्तीति बृसी। ब्रुवच्छब्दस्य बृ श्रादेशः । सदेरधिकरणे डट् । प्राकृतिगणोऽयम् । १०३५ संहितायाम् । (६-३-११४ ) अधिकारोऽयम् । १०३६ कर्णे लक्षणस्याभवतीत्यर्थः । दिक्छब्देभ्यस्तीरस्येति । वार्तिकमिदम् । दुरो दाशेति । इदमपि वार्तिकम् । दुर् इत्यस्य दाश, नाश, दम, ध्य इत्येतेषु परेषु उत्वम् उत्तरपदादेः ष्टुत्वं च वक्तव्यमित्यर्थः । दूडाश इति । दुर् दाश इति स्थिते रेफस्योत्वे सवर्णदीर्घः, दाशेर्दकारस्य ष्टुत्वेन डकारः। दूणाश इति । दुर् नाश इति स्थिते रेफस्य उत्वं सवर्णदीर्घः । नाशेर्नकारस्य ष्टुत्वेन णत्वम् । दूडभ इति । दुर् दभ इति स्थिते रेफस्य उत्वं सवर्णदीर्घः । दभेदकारस्य ष्टुत्वेन डकारः । खल त्रिभ्य इति । 'दाच दाने 'णश अदर्शने' ण्यन्तः, 'दम् हिंसायाम्' इति त्रिभ्यो धातुभ्यः 'ईषद्दुस्सुषु-' इति खलप्रत्यय इत्यर्थः । ननु क्ङित्परकत्वाभावात् कथमिह 'अनिदिताम्-' इति नलोप इत्यत आह-दम्भेनलोपो निपात्यत इति । दूढ्य इति । दुर् ध्य इति स्थिते रेफस्य उत्वं सवर्णदीर्घः, धस्य ष्टुत्वेन ढत्वम् । आतश्चेति । 'ध्यै चिन्तायाम्' 'आतश्चोपसर्गे' इति कप्रत्यये 'आदेच उपदेशे-' इति आत्त्वे 'आतो लोप इटि च' इत्याल्लोपे ध्यशब्द इत्यर्थः । सदेरिति । सद्धातोः अधिकरणेऽर्थे डटि डित्त्वसामर्थ्यादभस्यापि टेर्लोपे स इति रूपम् । ब्रुवत् स इति स्थिते उपपदसमासे सुब्लुकि ब्रुवच्छब्दस्य बृ इत्यादेशे बृसशब्दात् 'टिड्ढ-' इति डीपि बृसीति रूपमिति भावः । दिक्छब्देभ्य इत्यारभ्य एतदन्तः सन्दर्भः पृषोदरादीनीत्यस्यैव प्रपञ्चः । प्राकृतिगणोऽयमिति । पृषोदरादिरित्यर्थः । तेन कर्तुकामः, कर्तुमना दिक्शब्देभ्य इति । वार्तिकमिदम् । 'दुरो दाशनाश-' इत्यप्येवम् । खल् त्रिभ्य इति । दाशनाशदभेति त्रयोऽपि 'ईषुद्दःसुषु-' इति खल्प्रत्ययान्ता इत्यर्थः।बृसीति । 'मुनीनामासनं बृसी' । प्राकृतिगणोऽयमिति । तेन-'लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि। समो वा हितततयोर्मासस्य पचि युड्घनोः' । इत्यपि संगृहीतम् । कृत्यान्ते उत्तरपदे अवश्यमः अन्तं पुमान् लुम्पेत् । अवश्यगन्तव्यः, अवश्यसेव्यः । तथा तुमः काममनसोः परतः अन्तं लुम्पेत् । गन्तुकामः, गन्तुमनाः । समो हितततयोः अन्तं वा लुम्पेत् । सहितः संहितः। सततः संततः । युट् घञ् च एतयोः परो यः पच् धातुः तस्मिन्परे मांसस्यान्तं लुम्पेत् । मांस्पचनी । मांस्पाकः । इह