________________
प्रकरणम् २५ ] बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ २५७
शिष्टैर्यथोश्चरितानि तथैव साधूनि स्युः । पृषदुदरं पृषोदरम्, तलोपः । वारिवाहको वलाहकः, पूर्वपदस्य वः, उत्तरपदादेश्च लत्वम् ।
'भवेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् । गूढोरमा वर्णविकृतेर्व नाशास्पृषोदरम् ।'
'दिक्छ्ब्देभ्यस्तीरस्य तारभावो वा' (वा ३३६६) दक्षिणतारम्, दक्षिणतदाह - पृषोदरप्रकाराणीति । प्रकारः सादृश्यम्, तच्च शास्त्रोक्तलोपागमादेशादिरहितत्वेन बोध्यम् । व्याकरणशास्त्रागृहीतानीति यावत् । उपपूर्वको दिशिरुच्चारणार्थः । भावे क्तः । उपदिष्टमुपदेशः, उच्चारणम्, तदनतिक्रम्य यथोपदिष्टम् । पदार्थानतिवृत्तावव्ययीभावः । शिष्टैरित्यध्याहार्यम् । तथाच फलितमाह — शिष्टैर्यथोच्चारितानि तथैव साधूनीति । शिष्टास्तु शब्दतत्त्वसाक्षात्कारवन्तो योगिन इति भाष्यययोः स्पष्टम् । तलोप इति । षष्ठीसमासे सुब्लुकि तलोपे 'आद्गुणः ' इति भावः । पूर्वपदस्येति । वारिवाहकशब्दे वारिशब्दस्य पूर्वपदस्य वकारः सर्वादेशः । वाहकशब्द उत्तरपदं तदादेर्वकारस्य लकारादेश इत्यर्थः । भवेद्वर्णागमास इति । हसधातोः पचाद्यचि अनुखारागमे हंस इति रूपमित्यर्थः । हनधातोरचि समागमे 'नश्चापदान्तस्य -' इति अनुस्वार इत्यन्ये । सिंहो वर्णविपर्ययादिति । 'हिसि हिंसायाम्' इत्यतः पचाद्यचि इदित्त्वान्नुम् । 'नश्च-' इत्यनुस्वारः । हकारस्य सकारः, सकारस्य हकारश्च । सिंह इति रूपमित्यर्थः । यद्यपि हंससिंहयोरुणादौ व्युत्पत्तिरुक्ता, तथाप्युगादिसूत्राणां शाकटायनप्रणीतत्वेन शास्त्रान्तरत्वादिह व्युत्पादनं न दोष इत्याहुः । गूढोत्मा वर्णविकृतेरिति । गूढ आत्मा यस्येति बहुव्रीहौ उत्तरपदादेराकारस्य उकारे द्वणे रूपमिति भावः । वर्णनाशात्पृषोदरमिति । पृषद् उदरमित्यत्र तकारलोपे सति आद्गणे पृषोदरमिति
श्रादिशब्दो हि न व्यवस्थावचनः, यथोपदिष्टपदानर्थक्यादिति भावः । शिष्टैरिति । अध्याहारलभ्यमिदम् । 'यथोपदिष्टम्' इत्यत्र यथार्थेऽव्ययीभावः । उपदिशिश्वोच्चारणक्रियः । ' यानि यानि शिष्टैरुपदिष्टानि' इत्यर्थः । एवं स्थिते फलितमाह यथोश्चारितानि तथैवेति । समासपदविषयकमिदम् । उत्तरपदाधिकारात् । निरुक्तादिशास्त्रसिद्धानामसमासपदानाम् 'उणादयो बहुलम्' इत्येव सिद्धेश्च । यद्यपि समासविषयक - मेवेति नियमो न युज्यते, हंस सिंहशब्दयोरपि प्राचां कारिकायामुदाहृतत्वात्, तथापि तत्कारिकायां यथाशब्दाध्याहारेण दृष्टान्तप्रदर्शनार्थं तयोरुपन्यासः कृतो न तु प्रकृतसूत्रोदाहरणत्वेनेति नियमोक्तिः सम्यगेवेत्याहुः । वर्णागमादिति । हन्तेः पचाद्याचे समागमः । विपर्ययादिति । हिंसेस्तु पचाद्यचि हकार सकारयोः स्थानव्यत्ययः ।