________________
२५६ ]
सिद्धान्तकौमुदी । [ समासाश्रयविधि
१०३० का पध्यक्षयोः । ( ६-३ - १९०४ ) कापथम् । कालः । श्रतशब्देन तत्पुरुषः, श्रक्षिशब्देन बहुव्रीहिर्वा । १०३१ ईषदर्थे । ( ६-३ - १०५) ईषज्जलं काजलम् । श्रजादावपि परत्वास्कादेश:: - काम्लः । १०३२ विभाषा पुरुषे । (६-३-१०६) कापुरुषः, कुपुरुषः । श्रप्राप्तविभाषेयम् । ईषदर्थे हि पूर्वविप्रतिषेधान्नित्यमेव । ईषत्पुरुषः कापुरुषः । १०३३ कवं चोष्णे । ( ६-३ - १०७ ) उष्णशब्दे उत्तरपदे कबं का च वा स्यात् । कवोष्णम्, कोष्णम्, कदुष्णम् । १०३४ पृषोदरादीनि यथोपदिष्टम् । ( ६-३ - १०६ ) पृषोदरप्रकाराणि इति शेषः । कद्रथः, कद्वद इति । 'कुगति -' इति समासः । वदतीति वदः । कुत्सितो वदः कद्वदः । तृणे च जातौ । तृणशब्दे कोः कत्स्याद् जातौ वाच्यायाम् । कत्तृणामिति । तृणजातिविशेषोऽयम् । 'अस्त्री कुशं कुथो दर्भः पवित्रमथ कत्तृणम्' इत्यमरः । का पथ्यक्षयोः । पथिन्, अक्ष अनयोः परतः कोः का इत्यादेशः स्यादित्यर्थः । कापथमिति । कुत्सितः पन्था इति विग्रहः । ' कुगति -' इति समासः । ‘ऋक्पू:-' इत्यप्रत्ययः । 'पथः संख्याव्ययादेः' इति नपुंसकत्वम् । कापथ इति पाठे तु बहुव्रीहिः । काक्षशब्दे समासं दर्शयति- अक्षशब्देन तत्पुरुष इति । कुत्सितमक्षमिन्द्रियमिति विग्रहे ‘कुगति -' इति समास इत्यर्थः । अक्षिशब्देनेति । कुत्सिते अक्षिणी यस्येति विग्रहे 'बहुव्रीहौ सक्थ्यदणोः -' इति षजित्यर्थः । ईषदर्थे । ईषदर्थे विद्यमानस्य कोः का इत्यादेशः स्यादित्यर्थः । ईषज्जलं काजलमिति । ईषद् जलमिति विग्रहे 'कुगति -' इति समासः । नित्यसमासत्वाद् स्वपदविग्रहप्रदर्शनम् । कुत्सित आम्लः काम्ल इत्यत्र 'कोः कत्तत्पुरुषेऽचि' इति कदादेशमाशङ्कयाह – अजादावपीति । विभाषा पुरुषे । कोः का इत्यादेश इति शेषः । अप्राप्तविभाषेति । ननु को ईषदर्थकत्वे सति ईषदर्थे' इति नित्ये कादेशे प्राप्ते विकल्प संभव इत्यत आह--- ईषदर्थे हीति । वृत्त्यनुसारेणेदमुक्तम्, पूर्वविप्रतिषेधस्य भाष्यानुक्तत्वात् । कवं चोपणे । कवं का च वेति । विभाषेत्यनुवृत्तेरिति भावः । उभयाभावे कदादेशः । तथाच रूपत्रयम् । तदाह – कोष्णम्, कवोष्णम्, कदुष्णम् इति । पृषोदरादीनि यथोपदिष्टम् । आदिशब्दो न प्रभृतिवाची, गणपाठे पृषोदरादिपाठस्यादर्शनाद् यथोपदिष्टपदस्य वैयर्थ्याच्च । किंतु प्रकारवाची, 'कत्र्यादिभ्यो ढकञ्' इति निर्देशेनैव सिद्धम् । कापथमिति । कुत्सितः पन्थाः । 'ऋक्पूरब्धू:-' इति समासान्तः । ' पथः संख्याव्ययादेः' इति नपुंसकत्वम् । अप्राप्तविभाषेति । 'ईषदर्थे' इत्यस्याननुवृत्तेरिति भावः । पृषोदरप्रकाराणीति । १ ‘इत्यजित्यर्थः' इत्यन्यत्र पाठः ।
|